पृष्ठम्:विमानार्चनाकल्पः.pdf/362

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

330 विमानर्चिनाकल्पे महाशाखे एतेषां चतुर्विधानों मूल तर्द्धखानससूत्रम् । एतैस्सहाऽटविंशतिशात्रेषु चतुर्लक्षग्रंथापूर्णः। तेषु एतद्विमानार्चनाकल्यः आनंदसंहितायां सर्वशास्रसारभूतं गुह्याद्रुह्यतरं चतुर्वेदोद्भवमन्त्रैः चतुराश्रमिणा मनुष्ठेयम् । चातुर्वर्ण्यसमृध्यर्थं चतुराश्रमसिद्धिदं द्यूतुर्वर्ण्यसाधूनायुं चूत्वारोम्नाया वदंति । एतान् पुण्यान् सौम्यान् चतुर्विधान् विष्णोरर्चनाविर्धन् यस्तु ब्रूयात्, यस्तु श्रावयेत्, यः पठेत्, यस्तु कर्त्ता, कारयिता, प्रेरयिता, अनुमोदिता च, सर्वे च विष्णुसायुज्यमानुवंतेि न पुनर्जायंते । इत्याह भगवान् मरीचिः इति श्रीवैखानसे मरीचिप्रोते विमानार्चनाकल्पे ग्रंथगणनाविधिनाम एकाधिकशततमः पटलः ॥१०१॥ ॥ समाप्तोयं विमानार्चनाकल्पः ॥ । मङ्गलानि भवन्तु ॥