पृष्ठम्:विमानार्चनाकल्पः.pdf/312

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

28O विमानार्चनाकल्पे महाशाख्ने सर्वत्र पक्षान्तरम् अथवा सर्वत्र वर्णहीनं शैलमेव कारयेदित्येके ॥ शैलबेरस्याऽड्रोपांगहीने शैलस्याऽर्धचित्रस्य बेरस्यांऽगोपांगप्रत्यंगेषु हीनेषु तच्छक्तिहानिर्नेटा। तस्माचित्र (शक्ति) बालागारं नीत्वा तद्वेरं भूमी पिधाय उपरमहाशान्ति अब्जाग्ौहुत्वा शिलाग्रहणबद्भुत्वा तत्तदंगसमुत्पतियुक्त्या तक्ष्णात् कारयेत् ॥ बेरस्य महाडे हीने क० कृत्वा यथापूर्व तथाचरेत् ॥ सन्धानयोग्य बेरत्यागे संधानयोग्यबेरं यस्त्यजेत् स पापीयान् भवति, सर्वविनाशश्व भवति । तस्मात्सर्व प्रयत्नेन संधानं कारयेत् ॥ ध्रुवार्चयोः प्रामेकं करणाऽयोगे अशक्तश्चेत् ध्रुवबेरमर्चाबेरं च देवीभ्यांसहितं रहितं वा कृत्वा संस्थापयेत् । मृदालये ब्रह्मस्थाने धुवाचबेिर माहरेत् ॥