पृष्ठम्:विमानार्चनाकल्पः.pdf/280

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

246 विमानार्चनाकल्पे महाशाख्ने स्नेहद्रव्यचूर्णकषायौषायौषधिषुहीनेषुप्रयोगविपर्यासेषु च, रज्जुबन्धा ऽष्टबंधमृदालेपनघटीशर्करालेपनपटाच्छादनाऽऽभरणादिषु क्रमहीनेषु वर्णव्यतिक्रमे च, वैष्णवं, ब्राह्मं, ऐंद्रम्, आग्नेयं महाभूतदेवल्यं, प्राजापत्यं च, व्याहृत्यन्तं हुत्वा; यथाविधि यथास्थाने क्रमेण कारयेत्। मृण्मयं महाबेर मर्धचित्रं न कुर्वीत । सौवर्णं, राजतं, ताम्रजं, शिलाजं, दारवं, रत्नजं वा, अर्धचित्रं वा कारयेत् । बेरेऽनुक्तवर्णानलिप्ते कृत्रिमवर्णानलिप्ते वा, निर्यासाद्धिः प्रक्षाल्य, पद्माग्नौ वैष्णवं, विष्णुसूक्तं, जयार्दीश्व, हुत्वा; पश्वदुक्तवर्णान् अनुलेपयेत्। कृतं, अयः पाषाणचूर्णलशुनहिंगुतैलाद्य स्संयुक्तं, पूक्कमृण्मयं शूलो-परिरज्जुबंघहीनं, मृध्दीनं घटीशर्कराकल्कहीनं, प्रमाणहीन, मुक्तवर्णहीनं, भूषणहीनं, अग्नानादर्थलोभाद्वा स्थापितं चेत् तदाभिचारिकं भवति । तच्छिघ्र मपहाय, पद्माऽग्नौ वैष्णवं, विष्णुसूक्तं, पुरुषसूक्तं, श्री भूमिदेवत्यं,यहेवादीन् ब्राह्मं, रौद्रं, ऐद्रं, माग्नेयं, वारुणं, सर्वदेवत्यं पारमात्मिकं च जुहयात् । एषामहाशान्ति स्सर्वदोषोपशमनी भवति । पश्वाद्वेरंविधिवत्संस्कृत्य विधिनास्थापचेत् । आरकूटाऽयोवृत्तलोहाद्यनुक्तद्रव्यैः कृतं, कौतुकादि बेरम्, अज्ञानात् स्थापितं चेत्, तदाभिचारिकं भवति। तद्दोषशमनार्थं महाशांतिं हुत्वा, बेरं सलक्षणं कृत्वा; विधिना स्थापयेत्। कौतुकं स्थितमासीनं वा कारयेत्। नैव शयानं दैविके चार्ष पौराषिके च यथापूर्वं तथाचरेत्। अन्यथा दोषो भवति । कौतुकादि बेरे निर्दोषेअर्च्यमाने तत्रोत्कृष्टद्रव्यकृतबेर प्रवेशनं नैव कारयेत्। कुर्याच्चेद्यजमान विनाशनं भवति । अर्च्यमाने कौतुकादि बेरे विरूपे, विवर्णे; झर्झराद्यैक्ते वा तच्छक्तिँमहाबेरे समारोप्य, नवीकृत्य, बिंबशुद्धिकृत्वा, पुन:स्थापयेत् । अर्च्यमानं कौतुकबिंबं नृपादिभिः चोरै श्शत्रुभिर्वा अपहृतं चेत्,