पृष्ठम्:विमानार्चनाकल्पः.pdf/263

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्थूर्णजस्य लक्षणम्। अथ स्थूणजं नारसिंहं सोपाने सिंहासने धामंपादमाकुंच्य, अन्यं सर्वाभरणसंयुक्तं कारयेत् ॥ तस्यकोपशांत्यर्थ पार्श्वयोर्दक्षिणवामयोः श्रीमत्धौ, प्रह्लादं वंदमानं च कारयेत्। दक्षिणे नारदं वीणाहस्तं भित्तिंपार्श्व परित:प्रागार्डेशानान्त मिंद्रादिलोकपालान्वंदमानाँश्व कारयेत्। यानकनरसिंहस्य अध यानकं नारसिंहं वीशस्कंधोपरिष्ठात्, शेषोत्संगेसमासीनं तत्फणैः तदप्रतिष्ठ। अथ नारसिंहप्रतिष्ठाविशेषं वक्ष्ये-पूर्ववद्यागशालां शय्यावेर्दि पंचाग्नींश्वं परिकल्प्य, आहवनीये प्रधानाग्रौ हौत्रशंसनं 'नारसिंहं तपोनार्थ महाविष्णुं महाबल' मिति गिरिजस्य, देव्योःपूर्ववत् । ‘नारसिंहं तपोनाथं भक्तवत्सलं अनंतबल' मिति स्थूणजस्य, देव्यो: लोकपालाना मन्येषां च 'यो वा नृसिंह’ (वै०मध्प्र०७) इति मंत्रेणाऽटोत्तरशतमावर्स्यहुत्वा, शेषंसर्व पूर्वोक्तषोडशोपचारमंत्रैः तन्नाम संयोज्य; अर्चयेत् । स्नपनोत्सवादीनि विष्णोरिव समाचरेत् । ।