पृष्ठम्:विमानार्चनाकल्पः.pdf/191

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

 पटल: 36 155

     दक्षिणे सत्यमूर्तिं दक्षिणामुखं देवीभ्यां पूजकमुनिभ्यां ब्रह्मशंकराभ्यां अपरभित्यूर्ध्वभागे छत्रेण चामरधारिणीभ्यां जयाभद्राभ्यां सूर्यचंद्राभ्यां शुक्रबृहस्पतिभ्यां युक्तं प्रथमद्वारे नासत्यदस्त्रां द्वितीयद्वारे चक्रशंख चूलिनौ दक्षिणे सोपानस्थलभित्तौ दक्षिणामुखं वाग्देवीं च कारयेत् ॥

पश्चिमे पश्चिमाभिमुखं अच्युतं देवीभ्यां पूजकमुनिभ्यां ब्रह्मशंकराभ्यां अपरभित्त्यूर्ध्वभागे छत्रेण चामर धारिणीभ्यां जयाभद्राभ्यां सूर्यचंद्राभ्यां युक्त्तं, प्रथमद्वारे गुहजांबवौ, द्वितीयद्वारे शंखपद्मनिधी, सोपानस्थलभितौ पश्चिमामुखं मन्मथं कारयेत् ॥

     उत्तरेचोत्तराभिमुखं अनिरुद्धं देवीभ्यांसहितं रहितं वा पूजकमुनिभ्यां ब्रह्मशंकराभ्यां परभित्त्यूर्ध्वभागे छत्रेण चामरधारिणीभ्यां जयापुष्टिकाभ्यां सूर्यचंद्राभ्यां युक्तं, प्रथमद्वारे विद्द्युदासरसो द्वितीयद्वारे चक्रशंखचूलिनौ सोपानस्थलभित्तौ चोत्तराभिमुखं मुद्गलंमुनिं च कारयेत् ॥
     तृतियतले योगशयनं दक्षिणशीर्षं अनंतस्यसप्तभिपंचभिर्वा- 

फणौछन्नमौलिं द्विभुजं पूजं पूजकस्धाने महीमार्कडेयौ देवस्यदक्षिण- हस्तंमार्कंडेयशिरसिन्यस्तं वामं समुद्वतकटकं पादंदक्षिणंप्रसारित​- मीषत्कुंचितं नाभ्यंबुज समासीनं ब्रह्माणं पंचायुधान् गरुडं च उद्देश्य- भारतीं सनत्कुमांर ऊर्ध्वेवेदान् दक्षिणोत्तरयोः ब्रह्मशंकरौ प्रथ-मद्वारे गंगायमुने द्वितीयद्वारे सुरसुंदरौ च कारयेत्।

     ब्रह्मस्थाने कौतुकं चतुर्भुजं शंखचक्रधरं अनंतोत्सेगं आसीनं 

फणौस्सप्तभिः पञ्चभिर्वाछन्नमौलिं कारयेत ।

      आदिमूर्तीनांसर्वासांमूर्तीनां तत्तत्कौतुकबिंबानां पूर्वोत्त्कविधिना

तत्तध्दुवबेरानुरूपं, विष्णुंचतुर्भुजं वा, कारयेत्।

      इन्द्रादिलोकपालानाम् अन्येषां परिवाराणां नवभेदेष्वेकमार्गेण 

नवषट्पश्चमूर्तीः विमाने कारयेत् ॥

      इति श्रीवेखानसे मरीचिप्रोत्त्के विमानाचेनाकल्पे नवषदपञ्चमूर्ति-

कल्पनंनाम षट्त्रिंशःपटलः ॥३६॥