पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/६३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

५७

 एवं आकृतिविशेषं गुणविशेषाव्यभिचारिणं उच्चवंशसहकृतं च मन्वानः कविः बाह्यं रूपमान्तरगुणविशेषप्रतिफलकं आभ्यन्तरगुणविशेषाणां च उच्चवंशमात्रसंभवत्वं साधारणतः उपलभ्यते इति मानसशास्त्रीये (Psychological) अभ्युपगमे विश्वसति स्म । तदेवोक्तं कुमारसम्भवे-

  “यदुच्यते पार्वति पापवृत्तये न रूपमित्यव्यभिचारि तद्वचः।
  तथाहि ते शीलमुदारदर्शने तपस्विनामप्युपदेशतां गतम् ॥"

 इदमेव मानसशास्त्रीयं तत्त्वं आंग्लमहाकविः शेक्सपीयरः स्वनिबद्ध 'टेम्पेस्ट' नामनि रूपके प्रथमेऽङ्के द्वितीये दृश्ये प्रादर्शयत्

  "तादृशि सौन्दर्यमन्दिरे दोषावहं किमपि न सम्भाव्यते"*

 निरुपमसुन्दरीं कामयमानस्य अन्ततश्च तां भोक्तृत्वेन लभमानस्य चाहोभाग्यत्वं महापुण्यशालित्वं च महाकविरमन्यत-तदेव शाकुन्तले स्पष्टमुक्तम्-

   "अनाघ्रातं पुष्पं किसलयमलूनं कररुहै-
   रनाविद्धं रत्नं मधु नवमनास्वादितरसम् ।
   अखण्डं पुण्यानां फलमिव च तद्रूपमनघं
   न जाने भोक्तारं कमिह समुपस्थास्यति विधिः ॥"

 एवं असामान्यगुणसहकृतं सौन्दर्य महतः सुकृतस्य फलं अपुण्यभाजनमल्पपुण्यवन्तं वा नोपस्थातुमर्हति । तथा च तादृशसुन्दरीप्रेमभाजनस्य कृतार्थत्वं अहोभाग्यत्वं चाप्युक्तं यथा विक्रमोर्वशीये-

   "इदं तस्या रथक्षोभादंसेनांसं निपीडितम् ।
   एकं कृति शरीरेऽस्मिन् , शेषमङ्गं भुवोभरः ॥ (३-११)

पुनश्च-

   "सामन्तमौलिमणिरञ्जितपादपीठ-
   मेकातपत्रमवनेर्न तथा प्रभुत्वम् ।
   अस्याः सखे ! चरणयोरहमद्य कान्तं
   आज्ञाकरत्वमधिगम्य यथा कृतार्थः" ॥ (३-११)

 एवं असाधारणसुन्दरी दिव्यां नायिकां उर्वशीं कामयमानः पुरूरवाः आत्मनः एकातपत्रप्रभुत्वापेक्षयाऽपि तस्याश्चरणयोराज्ञाकरत्वं जन्मसाफल्यहेतुं मन्वानः तद्दास्येन आत्मानं कृतार्थयामास

  "अनन्यनारीसामान्यो दासस्त्वस्याः पुरूरवाः" (३.१८) इति,


  • "There's nothing ill can dwell in such a temple:

If the ill spirit have so fair a house, Good things will strive to dwell with’t,” (Temp. I-ii)

वि. प्र.५ A