सामग्री पर जाएँ

पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/६०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

५४

 इत्यत्र धारासम्पातसमुच्छलितशैलतटे शोभमानायां स्थल्यां पाषाणमधिरूढः प्रबलवेगेनोच्चलितबर्हो मयूरः केकागर्भेण सोत्सुकेन कण्ठेन मेघानालोकयतीति सहृदयानां मनसि चित्रितमिव । एवमेव मालविकाग्निमित्रे-

   'वामं सन्धिस्तिमितवलय' (२-६) मिति पद्येऽपि ।

 पुनश्च कविवरस्य सङ्गीतनाट्यशास्त्रयोरैदंपर्येण प्रावीण्यमासीदिति तत्र तत्र शास्त्रीय-पारिभाषिकशब्दानां अर्धचर्चरी-चर्चरी-द्विपदिका-कुटिलिका-कुलिका-मन्दघटीत्यादि सङ्गीतशास्त्रीयाणां; खण्डिक-गलतिका-चतुरस्रकार्धचतुरस्रक-ककुभ- खुरकादिनाट्यशास्त्रीयाणां च शब्दानां प्रयोगेण विज्ञायते ।

 एवं शास्त्रनिपुणोऽपि कविः कालिदासः नाट्यस्य प्रधानत्वममन्यत । उक्तं च मालविकाग्निमित्रे- 'प्रयोगप्रधानं नाट्यशास्त्र"मिति ।

सौन्दर्य-वर्णनम्

 प्राकृतिकसौन्दर्यवर्णननिपुणः प्राधान्येन शृङ्गाररसपरिपूर्णान्तःकरणो महाकविः कालिदासो नाटकीयपात्राणां, तत्रापि विशेषतो नायिकानां . सौन्दर्यवर्णनेऽतीव मार्मिकः सूक्ष्मदृक् चासीत् यद्यपि सौन्दर्यदर्शनजन्माऽऽह्लादस्तु समेषामेव जनानां निर्विशेषस्तथापि; किं सौन्दर्यम् ? केऽस्य स्वरूपघटका अवयवाः? कीदृशः कस्यावलोकयितॄणां मनसि प्रभावः? इति सर्वं विविच्य सम्यक् सौन्दर्यचित्रणं न सुकरम् । प्रतिभाशालिनां महाकवीनामेव कृतिष्वेतदुपलभ्यते ।

किं सौर्न्दयम् ?

 नायिकानामङ्गेषु यल्लावण्यं माधुर्यं च साक्षात्क्रियते तत् प्राकृतिकसौन्दर्यस्यैवावयवभूतमिति पश्यता कालिदासेन तत्र तत्र लतापल्लवकुसुमादिसाम्यं नायिकावयवानां प्रदर्शितम् । तथा हि कुमारसम्भवे-

  "आवर्जिता किंचिदिव स्तनाभ्यां वासो वसाना तरुणार्करागम् ।
  पर्याप्तपुष्पस्तबकावनम्रा संचारिणी पल्लविनी लतेव ॥” (३-५४)

 इति पद्येन पार्वत्याः सौन्दर्यमुपवर्णयन् तस्या लतासाम्यं पूर्णोपमया दर्शयति ।

 एवमेव शाकुन्तलेऽपि-

   "अधरः किसलयरागः कोमलविटपानुसारिणौ बाहू ।
   कुसुममिव लोभनीयं यौवनमङ्गेषु सन्नद्धम् ॥"

 इति पद्ये संप्राप्तयौवनाया नायिकाया वसन्ते कुसुमितलतासाम्येनोपवर्णनम् । विक्रमोर्वशीयेऽपि-

   “यावत्पुनरियं सुभ्रूरुत्सुकाऽपि समुत्सुका ।
   सखीभिर्याति संपर्कं लताभिः श्रीरिवार्तवी ॥"

 इति पद्ये सखीभिः सहोर्वश्याः सम्मेलनाय रथमुपश्लेषयितुमाज्ञापयन् राजा लतासु माधव्याः श्रियमिव सखीष्वप्सरःसु उर्वश्या अतिशयिततां द्योतयति साम्यमुखेन ।