सामग्री पर जाएँ

पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/५४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

४८

 तत्रभवतः कालिदासस्य नैकेषु ग्रन्थेषु लभ्यन्ते खलु रमणीयदेशादिवर्णनास्थानानि । यतः कैश्चिन्निश्चीयते यदनेन महाकविनाऽवन्तीषु श्रीविशालायारनुपमवर्णनगौरवप्रदर्शनात् नूनमावन्तिकेनोज्जयिनीशस्य विक्रमादित्यस्य सभायां नवरत्नेष्वन्यतमेन भवितव्यम् , यच्च लभ्यते "धन्वतरिक्षपणकामरसिंहशङ्कवेतालभट्टघटकर्परकालिदासाः । ख्यातो वराहमिहिरो नृपतेः सभायां रत्नानि वै वररुचिर्नव विक्रमस्य ।" इदमेव वस्तु प्रमाणीकर्तुं बहवो विक्रमोर्वशीयनाटकस्याख्यायाः विक्रमनामग्रहणेनैवाभिख्यां ख्यापयन्ति । अपरे तावदेनं विदिशावास्तव्यमामनन्ति, परे च मन्यन्ते यदयं हिमवत एव तादृग्सौन्दर्यजनितपक्षपातः काश्मीरिकः किल । तं काश्मीरदेशिनं मन्वानैर्विद्वद्भिरुह्यते यदयं प्रथमावस्था स्वदेश अतिवाह्य पश्चात् समायातश्चोज्जयिनीम् । इदमेवावलम्ब्य तैः प्रत्यादिश्यते यदयं वङ्गीयः तत्रस्थकविसाधारणतया गौडीरीत्या अस्य लेखेऽदर्शनात् ।

 यत्र कुत्रत्योऽप्ययं भवेत्तथापि नैकविधेष्वपि सत्सु विषयेऽस्मिन् वितर्केषु, प्रायः समेषामेव विदुषामत्रैकमत्यं दृश्यते यदयं महाराजस्य विक्रमादित्यस्य सभामलमकार्षीत् । किन्तु ईशवीयसंवत्सरसहस्रात्पूर्वम् महीं विक्रमादित्याभिधानाः षड्राजानोऽशासन्त । यद्यपि तेषु कतमस्तावन्महाकविबद्धसख्यः इति नूनं सन्देहास्पदमेव तथाप्यध्यवस्यते विपश्चिद्भिर्यदस्य महाकवेरायहोलीयशिलापट्टलेखे भारविसहकृतस्योल्लेखदर्शनात् ख्रिस्टीयसप्तमशताब्देर्द्वितीयपाद एव । लब्धप्रख्येन बाणभट्टेनापि हर्षचरिते कालिदासस्य प्रशंसनाच्च तदूर्ध्वं जातस्य चालुक्यवंशीयविक्रमादित्यस्य तत्पश्चात्तनानामप्यत्र विचारणमसङ्गतमेव, यतः पूर्वभणिते शिलाफलके "येनायोजिनवेश्मस्थिरमर्थविधौ विवेकिना जिनवेश्म । स विजयतां रविकीर्तिः कविताश्रितकालिदासभारविकीर्तिरिति” उल्लिखित एव महाकविः । भट्टबाणस्य पूर्ववर्तिनोsभूवंस्तावत्रयो विक्रमादित्यास्तदर्थमेव पाश्चात्यानां गवेषकाणां मतत्रैविध्यमुपस्थितममुष्मिन् विषयेः-

 पूर्व पुरातत्त्वकोविदेन फर्ग्युसनविदुषा कारूरैः साकं युयुत्सुनावन्तिकेन विक्रमेण जयिना हूणान् विद्राव्य स्वनाम्नो महिमानं प्रचिख्यापयिषुणा विक्रमसंवत्सरसन्ततिः प्रादुरभावि, ततोऽस्य विक्रमस्य कालः इशुमशीयजन्मनः सप्तपञ्चाशद्वर्षपूर्वक एवामानि । तत्त्वमेतदेवावलम्ब्य मोक्षमूलरभट्टादिभी रघुवंशे हूणादीनां निर्देशमुद्दिश्य कालिदासस्तु विक्रमीयसभायां रत्नमित्यायोजि। किन्तु एनमर्थमसहमानेनापरेण फ्लीटपण्डितेन हूणानां विजयिनं यशोधर्मनामानं विक्रमव्यतिरिक्तमपरमेव वीरं प्रमाणीकुर्वताऽसन्नेव विज्ञापितोऽयमर्थो यद्यपि बहुभिरपीदानीन्तनैर्विद्वजनैः प्रयत्यते यदीशुमशीयजन्मनः अर्वाक्तन एवायं कविरिति राद्धान्तयितुम् ।

 फ्लीटमहानुभावस्य संशोधनमुररीकृत्य, तदर्थमेवान्वेष्टुकामैः नैकशिलापट्टोपः लब्धकाव्यालोचकैः माननीयस्मिथमेकडोनलसदृशैः मालवान्तर्गतमन्दसौरग्रामे वत्सभट्टीयशिलालेखं स्वीकृत्य महाकविस्तच्छिलालेखकालाच् चतुःशतख्रिष्टाब्दादर्वाक्तन इत्यनुमाय चन्द्रगुप्तविक्रमादित्यस्य समकालीनः प्रमीयते । एतन्मतावलम्बित-