पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/५३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४७

 अपरश्चाह यत्-

   "भासो रामिलसौमिलौ वररुचिः श्रीसाहसाङ्कः कवि-
   र्मेण्ठो भारविकालिदासतरलाः स्कन्धः सुबन्धुश्च यः।
   दण्डी बाणदिवाकरौ गणपतिः कान्तश्च रत्नाकरः
   सिद्धा यस्य सरस्वती भगवती के तस्य सर्वेऽपि ते"।

 स्वयमपि जयदेवो महाकवीनां नामोत्कीर्तनप्रसङ्गे कविताकामिन्याः सौन्दर्यसर्वस्वभूतं विलासं कालिदासमेव मेने यथा-

   “यस्याश्चोरश्चिकुरनिकरः कर्णपूरो मयूरो
   भासो हासः कविकुलगुरुः कालिदासो विलासः ।
   हर्षों हर्षो हृदयवसतिः पञ्चबाणस्तु बाणः
   केषां नैषा कथय कविताकामिनी कौतुकाय ॥"

 एवं सम्मानितममुं कविकुलगुरुमेवालम्ब्यानामिकायाः प्रवृत्तिनिमित्तस्योत्प्रेक्षणभङ्ग्याह कश्चिद्रसिकः-

  "पुरा कवीनां गणनाप्रसङ्गे कनिष्ठिकाधिष्ठितकालिदासः ।
  अद्यापि तत्तुल्यकवेरभावादनामिका सार्थवती बभूव ॥"

 एतादृशं कविगणाग्रसरं महाकविं वीक्ष्य कालिदासं कविताकामिनी नूनमेव वृतवतीति सम्यगाह कश्चनालोचकप्रवरः

  "वाल्मीकेरजनि प्रकाशितगुणा व्यासेन लीलावती
  वैदर्भी कविता स्वयं वृतवती श्रीकालिदासं वरम् ।
  याऽसूतामरसिंहमाघधनिकान् सेयं जरा नीरसा
  शून्यालङ्करणा स्खलन्मृदुपदा कं वा जनं नाश्रिता? ॥” इति ।

 सहृदयप्रौढस्यैतादृशो महाकवेरमितकवित्वप्रतिभाभासा हसितभासादिभी रसिकैः कवनप्रसङ्गे आत्मनोऽपि श्लाघाभिसन्धिः स्वयं शिथिलीकृतो यथा-

   "कवयः कालिदासाद्याः कवयो वयमप्यमी।
   पर्वते परिमाणौ च पदार्थत्वं प्रतिष्ठितम् ॥"

 एवमेव

  "वयमपि कवयः कवयः, कवयोऽपि च कालिदासाद्याः।
  दृषदो भवन्ति दृषदश्चिन्तामणयोऽपि हा दृषदः ॥"

 इत्थं नैककोविदवरैः भृशमुपश्लोकितोऽयं महाकविः कतमस्मिन् काले कुत्र वा प्रादुर्भावमनुभूय कीदृशीमवस्थामवलम्ब्यानुजग्राह स्वजन्मलाभेन भारतं वर्षमिति प्रायोऽयं सन्देहभाजनमेवाद्यापि विषयस्तथापि अमुष्मिन् विषये विचिकित्साविषमेऽपि क्षोदक्षमया खलु प्रेक्षया समुद्धताः केचन राद्धान्ताः समासेनोपन्यस्यन्त इति-