॥ श्रीः ॥
समर्पणम् ।
पत्नादुद्भाव्य काव्याम्बुधिमथनविधौ भव्यलक्ष्मीमिवान्यां वात्सल्यात्स्वप्रणीतां प्रचुरफलवतीं हारिणीं कल्पवल्लीम् । वैकुण्ठेऽकुण्ठधाम्नोरथ विबुधवनीप्रोल्लसत्स्नेहभाजोः श्रीकृष्णाचार्यताताङ्घ्रियुगकमलयोः प्रश्रयादर्पयामि ॥