पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/३१६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२१८
विक्रमोर्वशीये

समर्थये यत् प्रथमं प्रियां प्रति क्षणेन तन्मे परिवर्ततेऽन्यथा ।
अतो विनिद्रे सहसा विलोचने करोमि न स्पर्शविभावितप्रियः॥६८॥

 ( शनैरुन्मील्य चक्षुषी) कथं सत्यमेवोर्वशी । (इति मूर्च्छितः पतति)

    उर्वशी-समस्ससहु समस्ससहु महाराओ। [समाश्वसितु समाश्वसितु महाराजः।]

    राजा-(संज्ञां लब्धा) प्रिये ! अद्य जीवितम् ।

त्वद्वियोगोद्भवे चण्डि मया तमसि मज्जता ।
दिष्ट्या प्रत्युपलब्धासि चेतनेव गतासुना ॥ ६९ ।।


सुखीभवेत् तथैव जातमिति मन्ये । अत्र भावानां सात्विकानामभिव्यक्तिः अतः पुनरस्ति विश्वासो यत्सा प्राप्स्यते । कुत इति हेतुमाह विश्वासे-

 समर्थय इति-यद्यत् तस्याः वसनगतिलोचननूपुररवादिकं अहं प्रियां प्रति समर्थये निश्चिनोमि तत् सर्वं क्षणेन अन्यथा परिवर्तते । पूर्वं अयं मे प्रियायाः नूपुररवः, इयं तदीया गतिः, इदं तस्या अंशुकमिति यद्यदहं पूर्वं सम्भावयामि तदेव परस्मिन् क्षणे अन्यथा भवति नायं नूपुररवः किन्तु हंसकूजितम् , नेदं वसनम् किन्तु शाद्वलमित्येवं क्षणादेव यन्मया प्रियाविषयकं निश्चितमासीत्तदन्यथा भवति । अतः स्पर्शविशेषेण विभाविता लब्धा प्रिया येन तादृशः अहम् मम विलोचने सहसा विनिद्रे न करोमि नोद्घाटयामि । यतः अयं प्रियास्पर्शः अपि अन्यथा भवेत् ।

 यथा पूर्वं सर्वं क्षणेनान्यथा जातम् तथैवायं प्रियासम्पर्कोऽपि क्षणेन वैपरीत्यं भजेत् अस्माद् भयान्नाहं सहसा नयने उद्घाटयामि, शनैः शनैः उद्घाटयामि येन प्रियासम्पर्कजन्यानन्दविशेषवञ्चितोऽहं न लघु भवामि ।

 वंशस्थवृत्तम् ॥ ६८॥

 ( शनैः चक्षुषी उन्मील्य । ) कथं सत्यमेव परमार्थत एव उर्वशी । (इति हर्षविशेषान्मूर्च्छितः गतसंज्ञः सन् पतति)

 उर्वशी-समाश्वसितु समाश्वसितु शान्तो भवतु महाराजः ।

 राजा-(संज्ञां चेतनां लब्धा ) प्रिये ! अद्य जीवितम् ।

 त्वदिति-तव वियोगोद्भवे विरहात् सञ्जाते तमसि शोके मज्जता मया गतासुना निर्गतप्राणेन प्राणिना चेतना संज्ञा इव त्वं दिष्ट्या सौभाग्येन प्रत्युपलब्धासि पुनः प्राप्तासि ।

 त्वद्विरहजन्यशोकसागरे मग्नेन मया त्वं मत्सुदैववशात् यथा निर्गतजीवेन प्राणिना संज्ञा प्राप्यते तथा प्राप्तासि । यथा चेतनाया लाभेन मानवः विवेकं कार्यकारिणीं शक्तिं लभते तथैव त्वदाप्त्या अहमधुना सचेतनः सन् स्वस्थतामाप्तः इति तात्पर्यम् । अनुष्टुब् वृत्तम् ॥ ६९ ॥