- शमवगाहिष्ये । (परिक्रम्यावलोक्य च) हन्त! दृष्टमुपलक्षणं तस्या
- मार्गस्य ।
रक्तकदम्बः सोऽयं प्रियया घर्मान्तशंसि यस्येदम् । |
- तत्किं नु खलु शिलाभेदगतं नितान्तरक्तमिदमवलोक्यते ।
प्रभालेपी नायं हरिहतगजस्यामिषलव: |
भावीति भावः । यावदन्यमवकाशं स्थलमवगाहिष्ये गमिष्यामीत्यर्थः। (परिक्रम्य अवलोक्य च ) हन्त इति हर्षे ! तस्याः प्रियाया मार्गस्य उपलक्षणं चिह्नं दृष्टम् ।
रक्तकदम्बेति-रक्तकदम्बस्तु तपात्यय एव कुसुमितो भवतीति प्राकृतिकम् ।
स एवायं रक्तकदम्बस्तरुः यस्य वृक्षस्य इदम् धर्मान्तस्य ग्रीष्मात्ययस्य शंसि बोधकम् तथा च असमग्रैः असम्पूर्णैः केसरैः हेतुभिः विषमं निम्नोन्नतं अपि पुष्पं प्रियया शिखाभरणं केशभूषणं कृतम् आसीदिति शेषः ।
अयं स एव रक्तकदम्बतरुर्यस्य वर्षासमयप्रारम्भबोधकम् किञ्चिदुन्नतकेसरत्वान्नतोन्नतं अपि कुसुमं मम प्रियया केशभूषणत्वेनोपयुक्तमासीदिति भावः । अत्र स्मरणमलङ्कारः। आर्या जातिः ॥६०॥
(विलोक्य) तत् किं नु खलु इदं शिलाभेदान्तरगतं नितान्तरक्तमत्यन्तलालिमयुतं वस्तु अवलोक्यते दृश्यते किमिदं रक्तं रत्नं वा किमप्यन्यद् इति सन्देहः ।
प्रभालेपीति -प्रभया दीप्त्या लिम्पति व्याप्नोति सन्निहितमिति प्रभालेपी देदीप्यमानोऽयमस्तीत्यनेनावगम्यते यदयं हरिणा सिंहेन हतस्य व्यापादितस्य गजस्य आमिषलवः मांसशकलम् नास्तीति । मांसखण्डस्य प्रभाभावात् । अयं तु विलक्षणतेजोयुतः अतः नायं मांसखण्डः । सन्देहे तु रक्तत्वं कारणम् । यदि नायं मांसखण्डस्तदा अग्नेः स्फुलिङ्गः कणः स्यात् । तदप्यसम्भवि यतः इदं गहनं वनं अभिवृष्टं जलवृष्ट्या सिक्तं अभूत् । जलवर्षणे तु अग्निकणस्यासम्भवात् । इदानीमेव भूयसी वृष्टिरभूत्, तदा अयं अग्निकणस्तु भवितुं नार्हति इति स्फुलिङ्गविषयकसन्देहवारणम् ।
(विभाव्य) अरे अयं रक्तः यः अशोककुसुमानां स्तबको गुच्छः तेन समस्तुल्यः रागो लालिमा यस्य तादृशो मणिरस्ति यं मणिं उद्धर्तुं उद्ग्रहीतुं व्यवसित उद्युक्त इव स्वयं पूषा सूर्यः आलम्बितकरः अधःप्रसारितकिरणहस्तः प्रतिभाति ।