पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/३०६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२०८
विक्रमोर्वशीये

कमपराधलवं मम पश्यसि
 त्यजसि भामिनि दासजनं यतः॥ ५५ ॥

 कथं तूष्णीमेवास्ते । अथवा परमार्थतः सरिदियं नोर्वशी। अन्यथा कथं पुरूरवसमपहाय समुद्राभिसारिणी भवेत् । अनिर्वेदप्राप्याणि श्रेयांसि । भवतु । तमेवोद्देशं गच्छामि यत्र मे नयनयोः


तस्य भङ्गे पराङ्मुखं चेतः यस्य एतादृशस्य मम कं अपराधलवं दोषस्य अणुं पश्यसि यतः यस्मात् अपराधवशात् दासजनं मां त्यजसि ।

 त्वयि सदैव प्रीतिकरः अहम् , अनुच्चादिस्वरेणानुकूलार्थवचसा प्रियवागहम् , तव प्रणयानुकूलकारी अहम् । इत्येवं सत्यपि कं ममापराधस्य लेशं पश्यसि यस्य हेतोस्त्वं दासजनं मां परित्यज्य न जाने क्व गताऽसि ।

 अत्र अपराधलवस्याप्यसम्भावितत्वनिरूपणेन निबद्धरतित्वादिविशेषणत्रयस्य साकूतत्वात् परिकरालङ्कारः। अनुप्रासश्च ।

 अत्र अपराधलवमपि पश्यसि इत्यत्र स्थूलप्रतीतिप्रसङ्गवारणाय च अपेः अवश्यम्भावित्वम् । अवश्यं देयस्य अपिपदस्य अप्रदानेन "अनभिहितवाच्यत्वम्" न्यूनपदत्वं दोषः तेन च लवं न पश्यसि महान्तमपराधं पश्यसीति विरुद्धप्रतीतिः। दोषबीजं तु अभिमताप्रतीतिपूर्वकं विरुद्धमतिकारित्वं वेति काव्यप्रकाशटीकाकृतः। अत्र मान्यैर्मम्मटभट्टैः दोषो दर्शित एव तथापि लेशवाचकस्य लवपदस्य निवेशात् अपराधावयवं कं पश्यसीति आक्षेपोपस्थापनेनैव महतोऽपराधस्य निराकरणं ध्रुवं भवतीत्यत्र सूक्ष्मसमालोचनेन दोषाभाव एव स्फुरति इति विद्वद्भिः स्वतन्त्रतयाभिमन्तव्यमिति ॥

 भामिनी "कोपना सैव भामिनी" इत्यमरः ।

 भाम क्रोधे (भ्वा. आ. से.) अत्र च आवश्यकार्थो "आवश्यका" इत्यनेन णिनिः । अवश्यं भामते इयं सा भामिनी । प्रणयलक्षणं तु प्रागुक्तमेव । अत्र दीप्तरसत्वात्कान्तिर्नाम गुणः । मधुरपदसहयोगात् मधुरत्वं गुणश्च ।

 वृत्तं च द्रुतविलम्बिताख्यम् ।द्रुतविलम्बितमाह नभौ भराविति लक्षणात् ॥५५॥

 कथं तूष्णीमेवास्ते मौनमेव दधाना वर्तते । अथवा परमार्थतः याथार्थ्येन सत्यमेव वा सरिदियं नदी न तु उर्वशी मम प्रिया । यदीत्थं न स्यात् तर्हि पुरूरवसं माम् अपहाय परित्यज्य कथमियं समुद्राभिसारिणी भवेत् । अयं कवीनां समयः यत्समुद्रः नदीनां कामुकः यतः सर्वा नद्यः समुद्रं प्रति गच्छन्ति । नदीयं समुद्रं गच्छतीति सत्यम् । यदीयमुर्वशी भवेत्तदा मम स्वरं निशम्यापि माम् परित्यज्य कथं समुद्रं अभिगच्छेदिति भावः। अत्र कृते तु विचारे उर्वशीयमित्यस्यान्यथाभावाद्विपर्ययो नाम नाट्यलक्षणं लभ्यते, यदुक्तं दर्पणे-"विचारस्यान्यथाभावः सन्देहात्तु विपर्ययः" इति । अनेन उर्वश्याः पूर्वं कृतमभिसरणं स्मृतम् ।