एक्ककमवड्ढिअगुरुअरपेम्मरसे। |
(चतुरस्रकेणोपेत्याञ्जलिं बद्ध्वा)
मधुकर मदिराक्ष्याः शंस तस्याः प्रवृत्तिं |
(विभाव्य)
यदि सुरभिमवाप्स्यस्तन्मुखोच्छ्वासगन्धं |
लक्षणं तु "अस्यैव चेच्चरणयोरन्तरं स्यात् षडङ्गुलम् । वितस्तिमात्रमथवा नन्द्यावर्तं तदुच्यते" ॥ भ्रमरे स्वप्रणयस्योपक्रमं विधायान्तरा दृष्टं हंसं वर्णयति, उन्मत्तत्वात् "कथां प्रमत्तः प्रथमं कृतामिव"-न स्मरतीति युज्यते ।
एकेति-एकेन क्रमेण अर्थाद् विच्छिन्नेन भावेन वर्धितो गुरुतर आत्यन्तिकः प्रेमरसः यस्मिंस्तादृशे कामस्य रसः अभिनिवेशो यत्र तादृशि सरसि हंसयुवा क्रीडति । विलक्षणप्रीतिसन्दोहसन्दानितः कामाभिनिविष्टो हंसयुवा सरोवरसांनिध्ये क्रीडति इति भावः । अनेन सरसः कामोद्दीपकत्वं व्यक्तम् । एतादृशं क्रीडन्तं हंसयुवानं दृष्ट्वा अहं विरहीति दुःखभागिति आत्मनः अवस्थायाः परिज्ञानं विप्रलम्भं भृशं उपकरोति' इति ज्ञेयम् ॥४१॥
(चतुरस्रकः संस्थानविशेषः "नन्द्यावर्तस्थयोरर्धो भवेदष्टादशाङ्गुलम् । अन्तरे चतुरैः स्थानं चतुरस्रं तदोदितम्" इति लक्षणलक्षितः तेन दृष्टपूर्वं उपेत्य अञ्जलिं बद्ध्वा भ्रमरं आह:-)
मधुकरेति-हे मधुकर द्विरेफ ! मदिराक्ष्याः मत्तनयनाया तस्याः मम प्रियायाः प्रवृत्तिं उदन्तं शंस कथय-क्व मे प्रिया, कां दशामवाप्तेति सर्वां वार्तां तत्सम्बन्धिनीं माम् निवेदय ।
(विभाव्य अथवा तं सूक्ष्मं दृष्ट्वा) अथवा किं त्वया पृष्टेन, यतः सा वरं सुन्दरं तनुः शरीरं यस्याः सा शोभनाङ्गी सा मम प्रिया त्वया नैव कदापि दृष्टा भवेत् । कुत इदं विभाव्यत इत्याह-यदि त्वम् तस्याः मुखस्य उच्छ्वासः निश्वासस्तस्य सुरभिगन्धं अवाप्स्यः अलप्स्यथास्तदा किमस्मिन् पुण्डरीके तव रतिः प्रेम अभविष्यन्न कदापि । सरलार्थस्तु-हे भ्रमर! मत्प्रियायाः वार्तामखिलां कथय । अथवा यतस्त्वमस्मिन् सिताम्भोजे प्रीतिं करोषि तेन विभाव्यते यत्सा मम प्रिया त्वया न दृष्टा यतो यदि सा दृष्टाभविष्यत्तदा तस्या अलौकिकसौरभ्यं निश्वासगन्धं परित्यज्य इहास्मिन् कमले कथं तव प्रीतिरभविष्यन्न कदापीत्यर्थः।