पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२७७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१७९
चतुर्थोऽङ्कः

कुपिता तु न कोपकारणं सकृदप्यात्मगतं स्मराम्यहम् ।
प्रभुता रमणेषु योषितां नहि भावस्खलनान्यपेक्षते ॥ २६ ॥

    (ससंभ्रममुपविश्याननन्तरं जानुभ्यां स्थित्वा “कुपिता” इति पठित्वा विलोक्य च ।)

    कथं कथाविच्छेदकारिणी स्वकार्य एव व्यासक्ता !

महदपि परदुःखं शीतलं सम्यगाहुः
 प्रणयमगणयित्वा यन्ममापद्गतस्य ।
अधरमिव मदान्धा पातुमेषा प्रवृत्ता
 फलमभिनवपाकं राजजम्बूद्रुमस्य ॥ २७ ॥


तत् तत्स्यादाकाशभाषितम्" इति दशरूपके ।) किमाह भवती-इति किं ब्रवीषीति आकाशलक्षणोक्तमागतम् । कथं अनुरक्तमपि त्वां विहाय सा गतेति पृच्छसि । भवतु उच्यते शृणोतु भवती-

 कुपितेति-तु वितर्के सा कुपिता मह्यं क्रुद्धा । किन्तु सकृदपि एकवारमपि आत्मगतं मदाश्रितं कोपस्य कारणं न स्मरामि । यावत्कालपर्यन्तं मया विज्ञायते तावत्तु मया तु तस्याः कोपहेतु किमपि कर्म नानुष्ठितम् । किन्तु रमणेषु प्रियतमेषु योषितां स्त्रीणां प्रभुता भावस्खलितानि प्रणयगतान् अपराधान् नापते । यतः स्त्रियः स्वरमणेषु प्रभवन्ति अतः हेतोः प्रणयगतापराध एव न तेषां कोपहेतुः किन्तु केवलं तादृशसन्देहमात्रेणापि तेभ्यः कुप्यन्ति तास्तासां प्रभुत्वात् । अपराधं विनैव सा कुपितेति भावः ।

 अत्र अपराधरूपकारणं विनैव कोपरूपस्य कार्यस्य सद्भावात् विभावनालङ्कारः "विभावना विना हेतुं कार्योत्पत्तिस्तु दृश्यते" इति लक्षणात् । अर्थान्तरन्यासश्च, वियोगिनी वृत्तम् ॥ २६ ॥

 (ससम्भ्रमं सावेगं उपविश्य अनन्तरं जानुभ्यां स्थित्वा कुपितेतिपद्यं पठित्वा इतस्ततो विलोक्याह-)

 कथमिति आश्चर्ये ! कथायाः विच्छेदकारिणी अननुसन्दधती प्रत्युत्तरमदत्वैव स्वकार्ये एव व्यासक्ता व्यापृता तिष्ठतीयं कोकिला!

 महदपीति-महदपि दुःसहमपि परेषां अन्येषां दुःखं शीतलं आत्मनो व्यथाजनकत्वाभावात् शीतलमेव भवतीति यल्लोके आहुस्तव सम्यग् अन्वर्थमेव । तत्र हेतुः-यतः आपद्गतस्य विरह्दुःखदुःखितस्य मम प्रणयं प्रार्थनामगणयित्वा अवमत्य मदान्धा इयं कोकिला राजजम्बूद्रुमस्य अभिनवपाकं नूतनमेव पक्वं फलं सुमधुरं पातुं प्रवृत्ता यथा मदान्धाः कामदर्पखिलीकृतविवेकप्रसरा जनाः अधरं अन्यत् सर्वं अनादृत्य पातुं व्यवस्यन्ति तथैव मम पीडार्द्रनादमनादृत्य अधरमिव मधुरमिदं फलमास्वादितुं प्रवृत्ता; अतः साधु उक्तं लोके यत् परदुःखस्य व्यथाऽ-