सामग्री पर जाएँ

पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२७६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१७८
विक्रमोर्वशीये

 (एतदेव नर्तित्वा वलन्तिकयोपसृत्य जानुभ्यां स्थित्वा) भवति !

त्वां कामिनो मदनदूतिमुदाहरन्ति
 मानावभङ्गनिपुणं त्वममोघमस्त्रम् ।
तामानय प्रियतमां मम वा समीपं
 मां वा नयाशु कलभाषिणि यत्र कान्ता ॥ २५ ॥

 (वामकेन किञ्चिद्वलित्वा । आकाशे) किमाह भवती ? कथं त्वामेवमनुरक्तं विहाय गतेति ! शृणोतु भवती ।


 अत्र परभृते परपुष्टे इति पुनरुक्तिः आदराlfशयं उन्मादावस्थायाः परां काष्ठां वा व्यञ्जयन्ती विप्रलम्भोपस्कारकत्वान्न दोषावहा । परं प्रियतमा इत्यत्र तमप् ग्रहणानन्तरमपि परंपदादानमपि तथैव । अथवा आन्त्यन्तिकप्रणयं बोधयत् भृशतापभृतो विरहस्य हेतुः । परपुष्टे इति पदप्रदानेन परैः पोषिता अत एव परेषां कल्याणकरकर्मसु कृतज्ञत्वात् बद्धपरिकरा त्वमसि अतः ममापि प्रियोदन्तं प्रख्याप्य मे तापहारिणी भवेत्यर्थः ॥ २४ ॥

 एतदेव उपर्युक्तं वलन्तिकया रागविशेषेण नर्तित्वा उपसृत्य किञ्चित् , जानुभ्यां स्थित्वा आह-वलन्तिकालक्षणं तु यथा रत्नाकरे "वलन्तिका तदुपाङ्गं स्याद्रिहीना मन्द्रदेवता । सन्यासांशाग्रहेहायां शृङ्गारे शार्ङ्गिणोदिता ॥" भवति इति सम्बोधनम् अयि कोकिले इत्यर्थः ॥

 त्वामिति-अयि कलभाषिणि मधुरालापिनि पिके ! त्वां कामिनः कामुकाः मदनस्य कामदेवस्य दूतिं दूतीं उदाहरन्ति कथयन्ति । त्वं च मानस्य कामिनीकृतप्रणयरोषस्य अवभङ्गे विदारणे निपुणं चतुरं अमोघं सदैव सफलं अस्त्रमसि । मानिनीनां कामिनीनां प्रणयक्रुधः उन्मूलने परममस्त्रभूतं त्वमसि । अत एव तां विलक्षणां प्रियतमां मम समीपं समानय तस्याः मानभङ्गं विधाय मम सन्निधौ लघु आनय; अथवा यत्र स्थले सा मम कान्ता तत्र मां आशु त्वरितं नय । भावार्थस्तु-त्वां कामुकाः कामदूतीमामनन्ति तव स्वरस्योद्दीपकत्वात् । त्वं च कामिनीनां मानहानौ अमोघमस्त्रमसि । अतः तस्याः मानोद्धरणं विधाय तां इहानय, अथवा मां तत्र नय इति । दूतिपदं ह्रस्वेकारकान्तमपि दृश्यते "दूत्यां दूतिरपि स्मृता इति शब्दभेदप्रकाशे ॥ मानलक्षणं यथा "स्त्रीणामीर्ष्याकृतः कोपः मानोऽन्यासङ्गिनि प्रिये ।" अत्र प्रसादमाधुर्यसमताख्या गुणाः॥ वसन्ततिलका वृत्तम् ॥ २५॥

 वामकेन किञ्चिद् वलित्वा-पार्श्वस्थितवस्तुविलोकनार्थं परिवर्तनरूपः कश्चन संस्थितिविशेषो वामकम् , यदाह "धुतेन शिरसा यत्तु पार्श्वेन वलितेन च । तद्वामकं वै करणं पार्श्वस्थस्यावलोकने ।" इति । (आकाशे-पात्रं विना यदुक्तिस्तदाकाश इति "किं ब्रवीष्येवमित्यादि विनापात्रं ब्रवीति यत्, श्रुत्वेवानुक्तमप्ये-