पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२७२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१७४
विक्रमोर्वशीये


(उपेत्य) भवतु, यावेदनं पृच्छामि ।

(अनन्तरे खण्डकः)

संपत्तविसूरणओ तुरिअं परवारणओ।
पिअतमदंसणलालसो गअवरु विम्हिअमाणसओ ॥१९॥
[सम्प्राप्तखेदस्त्वरितं परवारणः ।
प्रियतमादर्शनलालसो गजवरो विस्मितमानसः॥१९॥]

(तेना खण्डकान्तरे चर्चरी)

बांहेण पै इअ अब्भत्थिअम्मि आअक्खहि मं ता
 एत्थ अरण्णे भमन्ते जइ तुइ दिट्ठी सा महु कांता ।
णिसम्महि मिअङ्कसरिसेण वअणेण इंसगई
 ए चिण्हे जाणिहिसि आअक्खिउ तुज्झ मई ॥ २० ॥
[बर्हिण परमित्यभ्यर्थये आचक्ष्व मम ताम्
 अत्रारण्ये भ्रमता यदि त्वया दृष्टा सा मम कान्ता ।
निशामय मृगाङ्कसदृशेन वदनेन हंसगतिः
 अनेन चिह्नेन ज्ञास्यस्याख्यातं तव मया ॥ २०॥]


 (उपेत्य ) भवतु शिखिनमुपसृत्य यावदेनं मयूरं पृच्छामि ।

 (अनन्तरे खण्डकाख्यो गीतिविशेषः । तल्लक्षणं तु-"विरहव्यापृता या तु

पठेद्गीतिं कुशीलवी । प्राकृतेन प्रबन्धेन खण्डकः स उदाहृतः" इति)

 संपत्तेति-गजमिषेण स्वावस्था प्रकटीकरोति-सम्प्राप्तखेदः विषण्णचेताः त्वरितं परान् वारयति इति परवारणः परबलदलनः प्रियतमाया दर्शने लालसः समुत्कण्ठितः विस्मितमानसः गजवरः इतस्ततः विचरतीति शेषः । परवारणोऽपि स्वप्रियां रक्षितुमक्षम इति विषादे विस्मये हेतुत्वेन परवारणेति विशेषणप्रदानम् ॥ १९ ॥

 (तेना खण्डकान्तरे चर्चरी। तेना इति मङ्गलसूचकमक्षरद्वन्द्वम् । तेनकलक्षणमाह तत्रभगवान् नाट्याचार्यः, “ॐ तत्सदितिनिर्देशात्त्वमस्यादिवाक्यतः । तदिति ब्रह्म तेनायं ब्रह्मणा मङ्गलात्मकः । लक्षितस्तेन तेना इति" । अन्यत्रापि च-"तेकारः शङ्करः प्रोक्तः नाकारश्च उमा तथा । गीतादौ तेन वक्तव्यं तेना इत्यक्षरद्वयम्"।)

 बंहिण इति-हे बर्हिण मयूर ! यदि अत्र अरण्ये विपिने भ्रमता त्वया सा विलक्षणा मम कान्ता दृष्टा चेत् मम मह्यं तां मे प्रेयसीं आचक्ष्व क्व सेत्यावेदय इति इयदेव त्वां परं केवलं अतीव बहुमानेन वा अभ्यर्थये अहं याचे । निशामय तदुपमित्यर्थं तस्याः परिज्ञानं शृणु। मृगाङ्कश्चन्द्रः तत्सदृशेन वदनेन आननेन,