( इति नर्तित्वा) अथवा न प्रत्यादिशामि यत्प्रावृषेण्यैरेव चिह्नैर्मम राजोपचारः सम्प्रति ! कथमिव-
विद्युल्लेखाकनकरुचिरं श्रीवितानं ममाभ्रं |
देकदेशविवर्ति ।" इति । कल्पतरौ नृत्यस्य संभावनायाः सत्वात् इवपदाप्रयोगाच्च गम्योत्प्रेक्षा।
इह पूर्वार्धे उपलक्षणे तृतीया । परैः भृतः पोषिता इति परभृतः ॥ १२ ॥
(इति नर्तित्वा)
अथवा जलधरसमयमेनं न प्रत्यादिशामि तत्र हेतुमाह-यत् येन हेतुना प्रावृषेण्यैः वर्षासमयोद्भवैरेव चिह्नः मम राजोपचारः राजसमुचिता सेवा सम्प्रति भवति । यतः समयेऽस्मिन् मम राजत्वमेभिः वर्षासमयसमुचितैरुपचारैः अर्थयुक्तं क्रियते । अनेन राज्ञः विरहित्वात् संकल्पविकल्पात्मकमनस्कत्वं व्यज्यते । प्रकृष्टा वृट् प्रावृट् तद्भवैः प्रावृषेण्यैः । कथमिवेति अनुगतेन पद्येन राजोपचारान् वर्णयति-
विद्युल्लेखेति-राजोपचारेषु राज्ञः कृते स्वर्णवितानं, चामराणि, वाहकाः, बन्दिजनः, वणिजादयश्च अपेक्ष्यन्ते । प्रावृषेण्यैः चिह्नैः राजोपचारो विधीयते इति उक्ते एतेषां सर्वेषां राजोपचाराङ्गानां तत्रापि अपेक्षा वर्तते इति सर्वं रूपकेण वर्ण्यते-
विद्युतः सौदामिन्या लेखा रेखा तदेव कनकं तेन रुचिरं सुन्दरं अभ्रं पयोद एव मम कृते श्रियः वितानं उल्लोचः अस्ति । निचुलतरुभिः तदाख्यवृक्षविशेषैः तेषां मञ्जर्यः (Spray) एव चामराणि मम उपरि व्याधूयन्ते । प्रावृषि निचुलतरुषु मञ्जरीणां समुद्भवः भवति । ताश्च वायुना कम्प्यन्ते । तत्र कविरुत्प्रेक्षते यत् मञ्जर्य एव चामराणि राज्ञः कृते व्याधूयन्ते । धर्मच्छेदात् ग्रीष्मर्तुनाशात् शैत्याच्च पटुतरगिरः सविशेषमधुरस्वराः नीलकण्ठा मयूरा एव बन्दिनः । वर्षासमये मयूराः मधुरस्वरेण केका कुर्वन्तः नृत्यन्ति । त एव राज्ञः गुणानुवर्णने बन्दिभूताः । पुनश्च धारासारः वर्षासम्पातः तस्य उपनयने तत्पराः अम्बुवाहा जलदा एव नैगमा वणिजः सन्ति । पयोदानां पक्षे धारा एव सारः द्रव्यं तस्योपनयने तत्परा इत्यर्थः । वणिजां पक्षे धारावत् प्रभूततरः सारः वित्तमिति ॥
भावार्थस्तु-सौदामिनीलेखया कनकसदृशधुतिर्मेघः एव स्वर्णवितानम्, तरुभिर्व्याधूयमानानि मञ्जरीरूपाणि चामराणि, मयूराणां केका एव बन्दिवाचः, तथा च अम्बुवाहा एव वाणिज्यपटवोजना सन्ति । इत्थं अनया सामग्र्या प्रावृषा राजोपचारः क्रियते । अनेन च तस्याः राज्ञः उपस्कारकत्वात्, राज्ञा रक्षणीयत्वं