२०
धीरात्वम्:- प्रियं सोत्प्रासवक्रोक्त्या मध्या धीरा दहेद्रुषा ।
(सोत्प्रासम् साक्षेपम् ।)
कलहान्तरितात्वम्:-चाटुकारमपि प्राणनाथं रोषादपास्य या ।
पश्चात्तापमवाप्नोति कलहान्तरिता तु सा ॥
उद्दीपनविभावाश्च मलयानिलमाकन्दमुकुलवर्षासमयप्रभृतयः-
यदुक्तम्:- तत्र स्यादृतुषट्कं चन्द्रादित्यौ तथोदयास्तमयः ।
लताकेलिवनविहारप्रभातमधुपानयामिनीप्रभृति ।
उद्दीपनविभावास्ते रसमुद्दीपयन्ति ये ॥
अनुभावाश्च परस्परसंवादाक्षिविक्षेपादयः स्तम्भो वैवर्ण्यं च -
भ्रूविक्षेपकटाक्षादिरनुभावः प्रकीर्तितः ।
सात्विकाः- हासपुलकादयः सात्विकाः।
अत्र व्यभिचारिणस्तु आवेगौत्सुक्योन्मादचिन्तादयः।
आवेगः सम्भ्रमो मतः। औत्सुक्यं हिः-
इष्टानवाप्तेरौत्सुक्यं कालक्षेपासहिष्णुता ।
चित्ततापत्वरास्वेददीर्घनिःश्वसितादिकृत् ॥
उन्माद:- चित्तसम्मोह उन्मादः कामशोकभयादिभिः ।
अस्थानहासरुदितगीतप्रलपनादिकृत् ॥
चिन्ता-- ध्यानं चिन्ता हितानाप्तेः शून्यताश्वासतापकृत् ।
अत्र रतिः स्थायी भावः ।
अविरुद्धा विरुद्धा वा यं विरोधातुमक्षमाः।
आस्वादाङ्कुररूपोऽसौ भावः स्थायीति सम्मतः॥
तत्र शृङ्गारस्य स्थायी भावो रतिः “रतिर्मनोऽनुकूलेऽर्थे मनसः प्रवणायितम्"।
(प्रवणायितं हि जलमिव सरलं सत्स्वभावतः प्रवृत्तमिव स्थितम्)
सम्भोगः शृङ्गारोऽङ्गी रसः ।
शृङ्गं हि मन्मथोद्भेदः तदागमनहेतुकः ।
उत्तमप्रकृतिप्रायो रसः शृङ्गार उच्यते ॥
(अयं च श्यामवर्णो विष्णुदैवतः कीर्तितः।)
सम्भोगत्वम्:- दर्शनस्पर्शनादीनि निषेवेते विलासिनौ ।
यत्रानुरक्तावन्योन्यं सम्भोगोऽयमुदाहृतः ॥
(अङ्गी प्रधानम् ।)
परञ्चात्र हास्यविप्रलम्भादयोऽङ्गरसाः।
अत्र हि सम्भोगस्य चमत्कारकारित्वात् विप्रलम्भो निपुणैर्दीयते यदुक्तम् “न विना विप्रलम्भेन सम्भोगः पुष्टिमश्नुते । कषायिते हि वस्त्रादौ भूयान् रागो विवर्धते" इति । विप्रलम्भो हि-यत्र तु रतिः प्रकृष्टानाभीष्टमुपैति विप्रलम्भोऽसौ ।