ध्यवस्यमाने विपिने धुतपक्षत्वं निःसहायत्वं हंसीहरव्याधनिमेन करालकालरूपेण उर्वशीहरेण राक्षसेनापवल्गितनयनत्वमनुभवन् कविना सलोष्टं धावनव्यापारात् स्वचातुरीमहिम्ना ईषदवरुद्धस्तेन चास्मै नेदं वस्तुतो रक्षः इति विभावनायावकाशो दत्तः, नो चेद्यदीदं व्याधत्रस्तस्यापहृतहंसीकस्य हंसयूनश्चित्रं नोपात्तं कविना,, तदोन्मादस्य चरमामवस्थां प्राप्तो राजा किमप्यनर्थमकरिष्यदित्यत एव नाट्यकलाकौशलपरिचायकमिदं चित्रं कवेः यत् सञ्चारिणः उन्मादस्य काष्टां प्रापयित्वा स्वभ्रमविलसितमन्यथाकर्तुं अवसरं राज्ञे पुरस्कृत्य एतदन्तरा सन्नद्धं तं नवजलधरं विभाव्यात्मनो मोहवशाद् ग्लानिमवाप्य सकरूणं कथं विप्रलब्धोऽस्तीति तत्त्वमवगम्य नवजलधरेति पद्यरत्नं वक्तुं संज्ञां लेभे । यद्येतस्मिन्नन्तराले राजा याथातथ्यविभावनसामर्थ्यबध्धितोऽभविष्यत्तदा तु मृगतृष्णया राक्षसमनुधावन् उन्मादशात् क्वचिद्गर्ते पतन् मूर्च्छावसंवदः कदापि स्मरस्य दशमीं दशामवाप्स्यतेति हेतुना कविना हृदयाहितेति हंसचित्रं नायकस्य दृशि समुपस्थापितम् । तत्र हि नायकसदृशदशापरिपतितं हंसयुवानमकस्मात्प्रदर्श्य कविना कियत् सुन्दरं हृदयद्रावि करुणभावभ्रमाख्यमलङ्करणं (Pathetic Fallacy ) उपयुक्तमिति अनतिगूढमेव । अमुनालङ्कारेण हंसीघातकस्य व्याधस्य दर्शनात् विलोलतारकत्वद्योत्यमानस्य भयत्रासस्य विषयीभूतं हंसयुवानं प्रेक्ष्य शासकत्वधिया अपराधिने क्रुद्धस्य राज्ञः पयोदविवर्तभूतं बाणाभिवर्पिणं राक्षसं प्रति कोपस्योपबृंहितत्वात् तन्मनसि जगति दुर्वृत्तानां परदुःखदत्वमेव निसर्गः इति विमर्शावकाशप्रसङ्गाद्राज्ञः भ्रान्तिनिरासाय कविनाकृत विचित्रा कृतिरिति द्विपदिकया- दिशोऽवलोकनफलमहिम्ना हृदयाहितेति गाथायाः चारुतया चरितार्थत्वं सुसिद्धमेव ।
इदं नाटकीयवस्तुतन्त्रमविमृश्य "व्याधापवल्गितनयनः" इत्यत्र राज्ञः पक्षे "बाष्पापवल्गितनयनः" इत्यर्थं व्युत्पादयता रङ्गनाथेनालमात्मनो बुद्धिवैभवः प्रदर्शितः इति सहृदयैरूह्यमेव । परं च "सरोवरे धुतपक्षः" इत्यत्र सरोवरसन्निधी भयवशात्कम्पितपक्ष इति तात्पर्यम्-सरोवरे इत्यत्र सरोवरतीरे लक्षणा ॥
समासेनोपन्यस्तं ततस्तावदिदमत्राकूतं यद् विरहदूनो राजा पयोदं प्रेयसीमपहरन्तं राक्षसं मत्वा लोष्टमुद्यम्य धावितुं प्रक्रमते एव तावत्तादृशदशाविशेषपातितं हंसयुवानमालोक्यैवान्तराले आत्मनो भ्रमविलसितमेवासीन्नेदं रक्षः किन्तु नवजलधरः इति विभावनानुरोधेन भणति यत् यमहं राक्षसं मन्वानः आसम् स नवजलधरः सन्नद्धः । सन्नद्धेति भेदकस्योभयत्रापि योजनीयत्वात् । अत्र प्रतिपदं वैलक्षण्यं अवधेयम्-जलानां धरो जलधरः सजलत्वात् श्यामतापत्तिः तत्रापि नवेति विशेषणप्रदानात् भृशं श्यामत्वं गम्यते । सन्नद्धत्वाख्यापनात् घनघोरघटात्वं व्यक्तम् । सन्नद्धत्वस्य मेघविशेषणत्व एव भ्रान्त्युद्बोधकस्योपमानस्य दृप्तत्वं सज्जाघटीति; गर्जनादि दृप्तत्वे हेतुः । दृप्तत्वख्यापनात् निशाचरस्य प्रियोर्वशीग्रहणं, राज्ञश्च "आः दुरात्मन् विष्टेति" भर्त्सनस्यानवधानं साम्प्रतमेवेति भावः । पुनश्चेदं सुरधनुः दूराकृष्टं दूरतरावलम्बि कुपितस्य प्रतिभटस्य धनुषः आकर्णमूल-