पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२५६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५८
विक्रमोर्वशीये

 महाकवेः कालिदासस्येदं पद्यं गीर्वाणसाहिये सर्वत्रोल्लेखनीयमिव सुप्रसिद्धमेवेत्यतः अत्रेदं विभावनीयं यत् गताङ्के दुर्लभतमायाः वल्लभायाः प्राप्तिवशान्नायकस्य हृदयमतीवानन्दसन्दोहभाजनमिवाभवत् । तत्र नायकस्य प्रेयस्याः प्राप्तिसम्भवात् नाट्यस्य प्राप्त्याशा नाम तृतीयावस्था दर्शिता । किन्तु “न विना विप्रलम्भेन सम्भोगः पुष्टिमश्नुते । कषायिते हि वस्त्रादौ भूयान्रागोऽनुषज्यते” इति नियमात् विमर्शसन्धिप्रक्रमेऽत्रादौ विप्रलम्भं पुरस्कृत्य नियताप्तिनिबन्धनेऽस्मिन्नङ्के नायिकायाः मानोत्तेजितकोपपारवश्येन निषिद्धस्थलगमनाल्लताअत्वपरिणतेः नायकस्योन्मादेनैवाङ्कः समुद्घाटितो महाकविना । त्रोटकेऽस्मिन् नायकनायिकयोर्माशिष्ठत्वाद्रागस्य विप्रलम्मे उन्मादमूर्छादयो रसपरिपोषकाः । तत्र कविवरेण्यः अङ्कोपक्रम एव सोन्मादं राजानं प्रवेश्य "आः दुरात्मन् रक्षः" इति नवजलदं रक्षो मन्यमानो राजा तं भर्त्सयतीति सहृदयेभ्यः लक्षयति । आः दुरात्मन् इत्युपक्रम्य नवजलधरेतिपद्यपर्यन्तं विभावनीयं तावन्नायकस्य चित्तचित्रणचातुर्य तत्रभवतो महाकवेरिति विविच्यतेः-

 उर्वशीविरहितो राजा केशिहरणवृत्तान्तं स्मरन् शैलोपरि परिवर्तमानं बलाहकं वीक्ष्य भ्रान्तो मनुते यदयं पयोधरः निशाचर एव । तत्र च वारंवारं दृश्यमाना उज्ज्वला तडित् तेन कुक्षौ नीयमाना राज्ञः प्रियतमोर्वशी । अतः सतडिद्वारिधरस्य नभसि विभावनं भ्रान्तावावश्यकम् । ततश्च तस्याः भ्रान्तेः परिपोषाय राज्ञश्च नैसर्गिकं बलदर्पमनुसन्धातुं बाणाभिवर्षों युज्यत एव, तदनुसन्धानाय जलाभिवर्षस्यावश्यं योजनीयवम् वाणाभिवर्षं घटयितुं शरासनस्याप्यपेक्षा । तस्य च आः दुरात्मन्निति चूर्णकेऽनभिसन्धिरित्यवधेयमिह । एतस्मिन् सङ्घर्षे हृदयाहितेति गाथायाः भूयोऽनवकाशः, यतो भ्रान्तो नायकः लोष्टमुद्यम्य राक्षसं हन्तुं धावन् नायिकां चान्विष्यन् क्व तावत् हृदयाहितेति स्थितपाठ्यं भणितुमर्हति । तत्र तु धावतो नायकस्य किञ्चिद्दूरं गतस्य नवजलधरेति भ्रान्तिनिराकरणं युज्यत एव, तच्च आः दुरात्मन्निति अनन्तरमाशु धावनमनु अव्यवहितत्वेन कथं विप्रलव्धोऽस्मीति विभावनपुरस्सरं नवजलधरेतिपद्यस्य संस्थितिः सुसाम्प्रतैव । अत्र हृदयाहितेतिगाथासन्निवेशस्तु अस्थान एवेति सहजं पक्षमवलम्ब्य क्वचिदियं गाथा न दृश्यते। किन्तु तत्रत्यदेशकालसमवायमाद्योपान्तं निटिलं विभाव्य सहृदयैरिदं नूनं विवेचनीयं यदत्र राजा वाणाभिवर्षिणं रक्षो विलोक्य लोष्टमुद्यम्य हन्तुं प्रक्रान्तः उन्मादस्य परतरां काष्ठां प्राप्तः । एतदन्तरे तस्य प्रगल्भत्वं सोढुमपारयन् क्व गतः स जाल्मोऽसुरः इति जिज्ञासया सर्वतो दिशः सूक्ष्मं विलोकयन् राजा स्वावस्थासौसादृश्यप्रतियोगिनं हंसयुवानमेकत्राभिवीक्षते यस्तु हृदयाहितप्रियादुःखदुःखित्वाच्च सरोवरे धुतपक्षः व्याधत्रासितनेत्रः तान्तः आसीत् । तत्र हंसयुगलयोः हंसी तावत्पूर्वमेव तेन व्याधेन आखेटिता बभूव ततश्च परिशिष्टं हंसमपि हन्तुमुद्यतं क्वचिद्व्याधं परिभावयन् हंसः त्रस्तनयनः आसीत् तमेतादृशं हंसं वीक्ष्य नायकोऽपि तत्रैवात्मानमपि प्रियाविरहदूनं आत्मनश्च सरोवरपदेवा-