पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२५२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५४
विक्रमोर्वशीये

[सहचरीदुःखालीढं सरोवरे स्निग्धम् ।
अविरलबाष्पजलार्द्रं ताम्यति हंसीयुगलम् ॥ ३॥]

 सहजन्या -सहि ! अत्थि कोवि समागमोवाओ? [ सखि !  अस्ति कोऽपि समागमोपायः ?]

 चित्रलेखा-गोरीचरणराअसंभवं संगममणिं वजिअ कुदो से समागमोवाओ । [गौरीचरणरागसम्भवं संगममणिं वर्जयित्वा कुतोऽस्ति समागमोपायः।]

 सहजन्या -ण तारिसा आकिदिविसेसा चिरं दुक्खभाइणो होन्ति । ता अवस्सं कोवि अणुग्गहणिमित्तभूओ समागमोवाओ भविस्सिदि त्ति तक्केमि । (प्राचीं दिशं विलोक्य ) ता एहि उदआहिवस्स भअवदो सुज्जस्स उवट्ठाणं करेम्ह । [न तादृशा आकृतिविशेपाश्चिरं दुःखभागिनो भवन्ति । तदवश्यं कोऽप्यनुग्रहनिमित्तभूतः समागमोपायो भविष्यतीति तर्कयामि । (प्राचीं दिशं विलोक्य ) तदेहि उदयाधिपस्य भगवतः सूर्यस्योपस्थानं कुर्वः।]


 सहअरीति-तृतीयचरणपरिवर्तनमेव शेषं पूर्ववत् । अविरलं सन्ततं यद्वाष्पं तज्जलं तेन आर्द्रं इति सन्तताश्रुपयःपूरप्लुतं इति हंसीयुगलविशेषणम् । इयमपि गाथा ॥३॥

 सहजन्या-सखि चित्रलेखे! अस्ति कोऽपि समागमोपायः? पुनरपि उर्वशीविक्रमयोः सम्मेलनं भवेदेतादृशो विद्यते कश्चनोपायो न वा।

 चित्रलेखा-गौर्याः पार्वत्याःचरणयोः रागेण सम्भवो यस्य सः तं सङ्गममणिं वर्जयित्वा अस्याः समागमोपायः कुतः अस्तीति शेषः।

 सङ्गमनीयाख्यमणिदर्शनान्तो गुरुशापः । तन्मणिदर्शनं विहाय नास्ति उपायान्तरमिति भावः।

 सहजन्या-तादृशा आकृतिविशेषाः अनुपमसुषुमाशालिनो जनाः चिरं दीर्घकालपर्यन्तं दुःखभाजो न भवन्ति क्षणिकास्तेषामापद इति भावः। तत् इति हेतोरवश्यं कोऽपि अनुग्रहार्थं निमित्तभूतः कारणभूतः समागमोपायः भविष्यतीति तर्कयामि । (प्राचीं दिशमवलोक्य-सूर्योदयो जातो न वेति द्रष्टुमिति) तदेहि उदयाधिपस्य उदयाचलस्य अधिपतेः सूर्यस्य उपस्थानं सेवां कुर्वः। अत्र अप्रस्तुतप्रशंसालङ्कारः।