पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२५०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५२
विक्रमोर्वशीये

राजर्षिणा चिरं निध्यातेति कृत्वा कुपिता मे प्रियसखी उर्वशी । ]

 सहजन्या-असहणा खु सा । दूरारूढो अ से प्पणओ। ता भविदव्वदा एत्थ बलवदी । तदो तदो। [असहना खलु सा,

दूरारूढश्चास्याः प्रणयः । तद्भवितव्यतैवात्र बलवती । ततस्ततः।]

 चित्रलेखा-तदो भत्तुणो अणुणअं अप्पडिवजमाणा गुरुसावसंमूढहिअआ विमुमरिददेवदाणिअमा अम्मकाजणपरिहरणिज्जं कुमारवणं पविट्टा । पवेसाणन्तरं अ काणणोवंतवत्तिलदाभावेण परिणदं से रूवम् । [ ततो भर्तुरननुयमप्रतिपद्यमाना गुरुशापसंमूढहृदया विस्मृतदेवतानियमा स्त्रीजनपरिहरणीयं कुमारवनं प्रविष्टा । प्रवेशानन्तरं च काननोपान्तवर्तिलताभावेन परिणतमस्या रूपम् । ]

 सहजन्या-(सशोकम् ) सव्वधा णत्थि विहिणो अलंघणीअं णाम । जेण तारिसस्स अण्णारिसो एव्व पलिणामो संवुत्तो । तदो तदो। [सर्वथा नास्ति विधेरलङ्घनीयं नाम । येन तादृशास्यान्या-


 तत्र काचनोदयवती नाम्नी हिमकरकिरणावदातवर्णा दारिकाजनहीरका राज्ञा निर्निमेषैलीचनैः बहु विलोकिता यतः परनारीमानमसहमानया मे सख्या तस्मै कोपः कृतः।

 अनेन नायिकायाः मानवतीतवं सासूयत्वं च प्रकाशितम् । राज्ञश्च शठत्वोपबृंहकोऽयं- सन्दर्भः।

 सहजन्या-असहना अमर्षिणी खलु सा असूयावतीत्यर्थः । अस्या राजनि प्रणयः तु दूरारूढः परां काष्ठा प्राप्तः । अत एव भवितव्यता एव अत्र बलवती । ततस्ततः।

 चित्रलेखा -ततः भर्तुः पुरूरवसा कृतमनुनयमभ्यर्थनम् अप्रतिपद्यमाना अस्वीकुर्वती गुरोः भरतः शापेन संमूढं विमोहितं हृदयं यस्याः सा तेन च विस्मृतं देवतानां नियमं यया सा तादृशी मे प्रियसखी स्त्रीजनेन परिहरणीयं अगम्यं कुमारवनं प्रविष्टा ।

 प्रियेण वारंवारं कृतायामपि प्रार्थनायाम् गुरोः गुरुतरशापेन स्वात्मानमपि अजानती प्रमदाभिः यत्र न गन्तव्यं तादृशं कुमाराख्यं वनं देवतानां नियमं विस्मरन्ती प्रविष्टेत्यर्थः। प्रवेशानन्तरं काननस्य उपान्ते समीपे वर्तमाना या लता तद्भावेन परिणतमस्या रूपम् । तत्र च सा देवतानियमोल्लङ्घनात् लतात्वं सपदि प्राप्ता।

 सहजन्या-(संशोकम् ) विधेः दैवस्य सर्वथा अलङ्घनीयं नास्ति । विधि: सर्वमेव लङ्घयितुं शक्तः । सर्वशक्तिमत् दैवम् इति भावः येन तादृशस्य प्रेम-