यदेवोपनतं दुःखात्सुखं तद्रसवत्तरम् । |
विदूषकः- -भोदि ! सेविदा पदोसरमणीआ चन्दवादा । ता समओ खु दे गेहप्पवेसस्स । [ भवति ! सेविताः प्रदोषरमणीयाश्चन्द्रपादाः । तत्समयः खलु ते गृहप्रवेशस्य ।]
राजा-तेन हि सख्या मार्गमादेशय ।
विदूपकः-इदो इदो भोदी । [इत इतो भवती।]
(इति परिक्रामन्ति ।)
राजा-मुन्दरि ! इयमिदानी मे प्रार्थना ।
उर्वशी-कीरिसी सा? [ कीदृशी सा?]
यदेवेति-यत्सुखं दुःखात् उपनतं उपस्थितं तत् रसवत्तरम् अधिकानन्ददायकं भवति । कठिनदुःखभोगानन्तरं प्राप्यमानं सुखं सविशेषसुखं भवति । यथा तप्तस्य सूर्यातपेन भृशं आयासितस्य पुरुषस्य तरोः च्छाया विशेषतः अधिकतरं निर्वाणाय सुखाय कल्पते। दुःखोत्तरं सुखमधिकं स्वादुतरं सम्पद्यते यथा वृक्षच्छाया तप्तस्य कृते अतिसुखाय भवतीत्येवम् ।
अत्र पूर्वार्धस्योत्तरार्धस्य च बिम्बप्रतिबिम्बभावः यथा दुःखी पूर्वार्धे, परार्द्धे च तप्तः, प्रथमे सुखं, परे तरुच्छाया इत्युपमानोपमेययोर्बिम्बप्रतिबिम्वभावत्वात् दृष्टान्तालङ्कारः । निर्वाणाय विशेषतः, रसवत्तरम् इत्यनयोरेकार्थप्रतिपादकत्वात् वस्तुप्रतिवस्तुभावः एतदंशे च प्रतिवस्तूपमा । खभावोक्तिरलङ्कारश्च । अनेनोर्वशीलामे आनन्दातिशयः इति गुणीभूतमत्र व्यङ्ग्यम् ।
अनुष्टुब् वृत्तम् ॥ २१ ॥
विदूषकः-भवति ! प्रदोषसमये सन्ध्यासमये रमणीयाः मनोहराः भगवतश्चन्द्रमसः पादाः मरीचयः अस्माभिः सेविताः, तदिदानीं ते गेहप्रवेशस्य समयः सम्प्राप्तः । अधुना गृहं प्रति गन्तव्यम् , अतिवर्तते च वेलेति भावः।
इति परिक्रामन्ति गन्तुमुद्यताः भवन्ति ।
राजा-तेन हि गमनवेलायाः समागतत्वात् , तव सखी मार्गमादेशय प्रदर्शय।
विदूषकः :-इत इतः भवती आगच्छतु इति शेषः।
राजा-सुन्दरि प्रिये ! इदानीं अमीप्सितायास्ते लाभे मे इयं प्रार्थना अभ्यर्थना।
उर्वशी-कीदृशी सा इति आज्ञाप्यताम् ।