राजा-(उर्वशी हस्तेनावल्म्ब्य) अहो ! अविरुद्धसंवर्धनमेतदिदानीमीप्सितलम्भानाम् । यतः-
पादास्त एव शशिनः मुखयन्ति गात्रं |
उर्वशी-अवराद्धाम्हि चिरआरिआ महाराअस्य । [अपराद्धाऽस्मि चिरकारि(लि)का महाराजस्य ।]
राजा-सुन्दरि : मा मैवम् ।
राजा-(उर्वशी हस्तेन अवलम्व्य धृत्वा) इदानीं कालोऽयं ईप्सितलम्भानां वाञ्छितार्थलाभस्य अविरुद्धतया आनुकूल्येन संवर्धनमेव । कालो ह्ययं त्वत्समागमसौभाग्येन ममानुकूल इव संवृत्तः । यतः-
पादा इति-अयि सुन्दरि ! ते एव शशिनश्चन्द्रमसः पादाः अंशवः ये त्वत्समागमपूर्वं मां सुतरामबाधयन् इदानी में गात्रं सुखयन्ति आनन्दयन्ति । ये चन्द्रमरीचयः त्वत्प्राप्तिपूर्वं दुःखकारिण आसन् त एव त्वदधिगमेन सुखदाः सम्पन्नाः। मदनस्य कामस्य बाणाः ये पुरा मामत्रासयन् त एवेदानीं मनसः अनुकूलाः प्रियकारिणोऽभवन् । यद्यद् वस्तु संरम्भेण त्वद्विरहजन्य चित्तवैक्लव्येन रूक्षमिवासीत् तत्सर्व इदानीं त्वत्सङ्गमेन लाभेन मम अनुनीतम् अनुकूलनिदानीं सम्पन्नम् ॥ "कुसुमशयनं न प्रत्यग्रं" इत्यत्र नायिका विरहजन्यखेदेनोपहितस्य हृदयस्य सद्भावात्सर्वं प्रतीपमिवासीत्, तचैव सर्व इह प्रेयसीसमागममहिम्ना हृदयस्योल्लसितवादनुकूलमिव जातमिति वर्णनात् महाकविना नायकस्य स्वमनोभावमनुरुध्यैव निसर्गस्यापि प्रतीपाप्रतीपत्वकल्पनात् सविशेषतया सहृदयत्वं गमितमिति विपश्चिद्भिरुद्भावनीयम् ।
अत्र विरहिणः पुरुषस्य याथार्थ्येनावस्थावर्णनात् स्वभावोक्तिरलङ्कारः । यद्यत्तदानीं दुःखं तदेवेदानीं सुखमिति बोधनाय पूर्वार्धे नैकवस्तुप्रदानात् समुच्चयालङ्कारश्च । अत्र माधुर्यम् ।
इदं च वसन्ततिलका वृत्तम् ॥ २० ॥
उर्वशी-(स्वार्जवं प्रकाशयति) चिरकारिका वेलातिलङ्घनकारिणी बहुकालयापिनी वा अस्मि अहं महाराजस्य अपराधा विरुद्धकारिणीत्यर्थः । चिरकालेनायान्त्या मया विरहदुःखजननीत्वात् महाराजस्यापराधो विहितः इत्यर्थः ।
राजा-अयि सुन्दरि हृदयद्राविरूपे! मा मा एवं विचारय ।
१३ विक्र०