पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२३२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३४
विक्रमोर्वशीये

तारिसो पिओ तत्तभवं? [छिन्नहस्तः पुरतो वध्ये पलायिते भणति 'गच्छ धर्मों भविष्यतीति । भवति ! किं तादृशः प्रियः तत्रभवान् ?]

 देवी-मूढ ! अहं खु अत्तणो सुहावसाणेण अजउत्तस्स सुह इच्छामि । एत्तिएण चिन्तेहि दाव पिओ ण वेत्ति । [ मूर्ख ! अहं खलु आत्मनः सुखावसानेनार्यपुत्रस्य सुखं इच्छामि । एतावता चिन्तय तावत्प्रियो न वेति ।]

 राजा----दातुमसहने प्रभवस्यन्यस्यै, कर्तुमेव वा दासम् ।

   नाहं पुनस्तथा त्वयि, यथा हि मां शङ्कसे भीरु ॥१४॥

 देवी-भोदु मा वा । जधाणिद्दिट्ठं संपादिदं पिअप्पसादणं व्वदम् । आअच्छध परिजणा, गच्छम्ह । [भवतु मा वा ।


यतोऽन्यसङ्क्रान्तचित्तेऽपि तस्मिन् मानं विहाय तस्य तादृशाभीप्सितार्थसम्पादने महती ते उत्कण्ठा ? अथवा तादृशः अन्यनायिकासंसक्तमानसः स किं ते प्रिय इति सर्वं उभयथापि सोल्लुण्ठनोक्तिः ।

 देवी-मूढ ! अहं खलु आत्मनः खस्य सुखावसानेन सुखाभावेनापि आर्यपुत्रस्य सुखं व्यपगतमनसिजसन्तापं सम्पादयितुं इच्छामि । अनेन मदीयव्यवहारेण त्वमेव चिन्तयावगच्छ यत् स मे प्रियो न वेति कीदृशं च तस्मिन् मे प्रेमेति । अत्र राजाविदूषकयोरभिसन्धानात् अधिबलं नाम गर्भसन्ध्यङ्गम् । अत्र सुराङ्गनायै असूयन्ती सत्यपि देवी खार्थत्यागमिषेणात्मनः संरम्भं गोपायितुं विदूषकं राज्ञः सम्मुखे अभिसन्दधातीत्यतः मुख्यमधिबलाख्यं गर्भसन्ध्यङ्घं सिद्धम् । “अधिबलमभिसन्धिः" इति दशरूपके ।

 अनेन तस्याः धीरस्वभाववत्वं, क्षमाशीलत्त्वं, मानराहित्यं जितेन्द्रियत्वं परं पतिपरायणत्वं च वस्तु गम्यते।

 राजा -दातुमिति-अयि असहने अक्षमे ! त्वं मामन्यस्यै अन्यस्त्रियै दातुं प्रभवसि अथवा स्वस्य वा दासं कर्तुं प्रभवसि पुनः ( किन्तु) तथापि अयि भीरू भयशीले ! नाहं त्वयि तथा विरक्तचेताः यथा मां त्वं शङ्कसे । अहं त्वत्सेवनपर एव नान्यसंलग्नमानसः । त्वं तु सर्वं कर्तुं प्रभवसि । इयमुक्तिर्नायकस्य शठत्वं गमयति ।

 अनेन राज्ञा वापराधगोपनं कृतम् । अन्यनायिकापहृतचेतसामीदृशः स्वभावोऽपीति वर्णनात् स्वभावोक्तिः गम्यते । अत्र पुनरिति पदं किन्त्वर्थे ।

 इयमार्याजातिः ॥ १४ ॥

 देवी-भवान् परासक्तमना भवतु न वा । निष्प्रयोजनमिदम् । यथानिर्दिष्टं यथाप्रदर्शितं प्रियप्रसादनं तदाख्यं व्रतम् सम्पादितम् सम्यक्तया अनुष्ठितम् ।