सामग्री पर जाएँ

पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२३१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१३३
तृतीयोऽङ्कः।

 उर्वशी-अम्महे ! ण आणामि किपरं से वअणम् । मम उण विस्सासविसदं हिअअं संवुत्तम् । [अम्महे ! न जानामि किंपरमस्या वचनम् । मम पुनर्विश्वासविशदं हृदयं संवृत्तम् । ]

 चित्रलेखा-सहि ! महाणुभावाए पदिव्वदाए अब्भणुण्णादो अणंतराओ दे पिअसमागमो भविस्सदि । [ सखि ! महानुभावया पतिव्रतयाभ्यनुज्ञातोऽनन्तरायस्ते प्रियसमागमो भविष्यति ।]

 विदूषकः-(अपवार्य-) छिन्नहत्थो पुरदो वज्झे पलाइदे भणादि "गच्छ धम्मो भविस्सदि” त्ति । (प्रकाशम् ) भोदि ! किं


 उर्वशी-अम्महे इति आश्चर्ये । न जानामि किंपरं कस्यार्थस्य बोधकं अस्याः वचनमिदम् । कमर्थं गमयतीदं वचनमिति ज्ञातुमसमर्थास्मि किं यथार्थमिदं वचनमुत वक्रोक्तिपरमिति सन्देहः । किन्तु विश्वासात् चित्ते विश्रम्भात् विशदम् प्रसन्नम् मे हृदयं संवृत्तं संजातम् । अत्र शङ्काजनितसम्भ्रमस्य गम्यमानत्वात् शङ्कारूपो विद्रवः।

 चित्रलेखा-सखि ! महान् अनुभावः प्रभावो यस्याः सा तया प्रभविण्या पतिव्रतया पतिपरायणया स्वामिहितकामया महिष्या ते प्रियेण सह समागमः सम्मेलनं न विद्यते अन्तरायो विघ्नो यस्मिन् तादृशः निष्प्रत्यूहः भविष्यतीति अभ्यनुज्ञातः सम्मतः । यां काञ्चनापि स्त्रियं राजाभिलषति तां सा अनुमन्यते इति भावः, न सा तया सपत्नीत्वेन विरुद्धा भविष्यतीति किन्तु पतिमनुसरन्ती तया सह दाक्षिण्येन भविष्यति इति प्रतिजानीते।

 विदूषकः-( अपवार्य-'रहस्यं तु यदन्यस्य परावृत्य प्रकाशितम्' अन्यैर्यथा न श्रूयते तथा) छिन्नः निष्फलः हस्तः कौशलं यस्य तादृशः मोघीभूतकलाकौशलो धीवरः पुरतस्तस्मिन् सावधानेऽपि वध्ये मत्स्ये पलायिते जालात् परिभ्रश्य जले मग्ने सति "मया परित्यक्तोऽसि, यथासुखं गच्छ, मया धर्मोऽनुष्ठितः" इति विचार्य यथाकथञ्चिद् स्वहानिविषये आत्मानं सन्तोषयति तथैव देवी सुरललनालालित्यलुब्धमानसं राजानं तस्या निवारयितुं असमर्था सती अहमार्यपुत्रस्याभीप्सितप्रमदापरिपन्थिनी न भविष्यामीति पातिव्रत्येन धर्मानुचरणमिषेण यथाकथमपि आत्मानं तोषयति इति भावः । विदूषकस्यायं सोल्लुण्ठोपहासः।

 अनेन राज्ञस्तस्यां सुराङ्गनायां गाढः प्रणयो व्यज्यते । तथा च राज्ञश्चपलत्वं सूचितम् । वध्यपदप्रदानेन राज्ञः देव्यायत्तत्वं द्योत्यते । अत्र च धीवरस्य मत्स्यापगमाप्रकान्तवस्तुव्याजेन प्रस्तुतवस्तुज्ञापनेनाप्रस्तुतप्रशंसालङ्कारः । यदुक्तम्- "अप्रस्तुतप्रशंसा स्यादप्रक्रान्तेषु या स्तुतिः" ।

 (प्रकाशम् ) भवति ! किं तत्रभवान् राजा तव तादृशः प्रियोऽभिमतः

  १२ विक्र०