उर्वशी-अणिव्भिण्णत्थेण इमिणा वअणेण आकंपिदं मे हिअअम् । अन्तरिदा सुणुम्ह आलावम् । जाव णो संसअच्छेदो होदि । [ अनिर्भिन्नार्थेनानेन वचनेनाकम्पितं मे हृदयम् । अन्तरिते शृणुव आलापम् । यावदावयोः संशयच्छेदो भवति ।]
चित्रलेखा-जं दे रोअदि । [यत्ते रोचते ।]
विदूषकः-णं इमे अमिअगब्भा सेवीअंतु चंदवादा । [नन्वतेऽमृतगर्भाः सेव्यन्तां चन्द्रपादाः।]
राजा-वयस्य ! एवमादिभिरनुपक्रम्योऽयमातङ्कः।
पश्य-
कुसुमशयनं न प्रत्यग्रं, न चन्द्रमरीचयो |
उर्वशी-अनिर्भिन्नः अस्फुटः अर्थः यस्य तादृशेन अनिर्भिन्नार्थेनाव्यत्कार्थेनानेन वचनेन मे हृदयं आकम्पितम् किञ्चित्कम्पितमिव जातम् । किमस्य गम्यं तात्पर्यमिति व्यक्तेरभावात् व्याकुलतामाप्तं मे हृदयम् । अतः अन्तरिते अदृष्टे भूत्वा अनयोरालापं पारस्परिकं संवादं शृणुवः । यावत् आवयोः संशयच्छेदो संशयनाशः भवेत्-अस्माकं संशयो विनश्येत् तावत् शृणुवः।
चित्रलेखा यथा ते रोचते तथैव कुरु ।
विदूषकः-ननु अनुज्ञाने ! एते अमृतं गर्भे येषां ते अमृतगर्भाः अमृतमया अमृतपूर्णाः चन्द्रपादाः चन्द्रकिरणाः सेव्यन्ताम् । ते हि चन्द्रस्य शीतललात् सामान्येन राज्ञः सन्तापं शमयितुं प्रभविष्यन्तीति विदूषको मत्वा वयस्यमनु- शास्तीति भावः।
राजा-वयस्य ! अयमातङ्कः सन्तापो रोगो वा एवमादिभिः एतादृशैरुपायैः अनुपक्रम्पः असाध्यः । चन्द्रादिसेवनाद्युपायैः साधयितुं अशक्योऽयं ताप इति । उपक्रान्तुं साधयितुं अशक्यः इति अनुपक्रम्यः अचिकित्स्यः इति । "उपक्रमः स्यादुपधाचिकित्सारम्भविक्रमे" इति विश्वः।
कुसुमेति-चूर्णकस्थ “पश्येति" पदस्य कर्मेदम् ।
प्रत्यप्रं नूतनं कुसुमानां शयनमास्तरणं मम मनसिजस्य रुजं पीडामपोहितुं दूरीकर्तुं अलं समर्थं न । कुसुमास्तरणयोगेन मम मदनबाधा शान्ता न स्यात् । चन्द्रस्य मरीचयः किरणा अपि मदनपीडां नाशयितुं न प्रभवन्ति । सर्वाङ्गीणं सर्वत्र शरीरे लिप्तं मलयजं चन्दनमपि कामबाधां बाधितुं न पारयति । तथा च मणीनां यष्टयो हारा अपि शका न तापं हर्तु मदीयम् किन्तु सा अपूर्वा दिव्या स्वर्गस्था दिवि भवा भव्या उर्वशी मदीयं विरहतापं परिमार्ष्टुं समर्थाऽस्ति । अथवा राहसि निर्जने आरब्धा तदाश्रयिणी उर्वशीसम्बन्धिनी कथा तं मदनतापं xxxxकुर्यात् अल्पतां वा नयेत् ।