पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२१७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११९
तृतीयोऽङ्कः

 उर्वशी-अवेहि । हिअअं मे ण पत्तीअदि । हला चित्तलेहे, हिअए काउण किंवि जप्पसि । पिअसमागमस्स अग्गदो एव्व अणेण अवहरिदं मे हिअअम् । [अपेहि । हृदयं मे न प्रत्येति । सखि चित्रलेखे ! हृदये कृत्वा किमपि जल्पसि । प्रियसमागमस्याग्रत एवानेनापहृतं मे हृदयम् ।]

 चित्रलेखा-एसो मणिहम्मप्पासादगदो वअस्समेत्तसहाओ राएसी । ता उक्सप्पम्ह । [एप मणिहर्म्यप्रासादगतो वयस्यमात्रसहायो राजर्षिः। तदुपसर्पावः।]

(उभे अवतरतः।)

 राजा-वयस्य, रजन्या सह विजृम्भते मदनवाधा ।


 उर्वशी-अपेहि-दूरमपसर-गच्छ गच्छ-भवतु वा इति भावः । मे हृदयं न प्रत्येति विश्वसिति-मदीयागमनं प्रतीक्षमाणः प्रियासमागमसुखमनुभवस्तिष्ठतीति मे हृदयं न यथार्थत्वेन मनुते । सखि चित्रलेखे ! हृदये कृत्वा हृदये किमप्यन्यन्निधाय त्वं परिहासेन जल्पसि । प्रियेण पुरूरवसा सह समागमस्य अग्रतः सम्मेलनात् पूर्वमेव तेन दिवि विद्यमानाया मम हृदयमपहृतं समाकृष्टम् । सहसैव मम चेतसि तावदीदृशो बलवस्त्नेहसमुद्बोधो जातः, अतः प्रियसमागमात्पूर्वमेव मम मनोवृत्तेः पारवश्यादिदमनुमिनोमि यत्तेनाव्यभिचरितमनसा मामेव नूनं निदिध्यायता भवितव्यम् । दर्शनादूर्ध्वं तु सामान्यतः चित्तद्रवो भवत्येव किन्तु मम मनः तत्समागमात्पूर्वमेवापहृतमतः ध्रुवं निश्चिनोमि यदयं बलवद्विक्षोभः तस्यैकान्तिकानुस्मरणस्यैव फलम् । सखि इदं तवैव कल्पनं प्रतिभाति, यतो नेदं सन्देहपदं यत् स अस्मिन् क्षणे ममैकस्मरणपरायणोऽस्ति यतः "सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः" इति न्यायात् तस्यैव प्रणयप्रभावादपहृतहृदया तं प्रति प्रस्थितास्मीति आकूतम् ॥

 इयं तावद्गाढप्रणयस्य शक्तिरेव यदृढा मनोवृत्तिः मनोभावविनिमयव्यापारेण (By force of mental transformation) निजालम्बनेऽपि तादृशीमेव वृत्तिं समुद्बोधयतीति सहृदयैरेव विभावनीयम् ॥

 चित्रलेखा -- एष मणिहर्म्यप्रासादगतः तदाख्यप्रासादे स्थितः वयस्यमात्रसहायः विदूषकातिरिक्तरहितः राजर्षिः विक्रमो विद्यते । अनेन एकान्तसेवित्वं मदनवशंवदत्वं च सूचितम् । तत् अनेन कारणेन उपसर्पावः तत्र उपैवः ।

 (उभे चित्रलेखोर्वश्यौ अवतरतः गगनात् भूमिमवतरतः।)

 राजा-वयस्य सखे माणवक ! रजन्या सह विजृम्भते वर्धते मदनबाधा । कामपीडा रजन्या सह वर्धते । यथा यथा रजनी प्रौढत्वं प्राप्नोति तथैव कामपीडाऽपि आधिक्यं व्रजति ।

 रजन्या अन्यत्र व्याप्तचित्ताभावात् रजन्याश्चोद्दीपकत्वात् कामबाधाया वृद्धिः साहजिकी ।

 अत्र सहोक्तिरलङ्कारः । यदाह-“सहोक्तिः सहभावश्चेद् भासते जनरञ्जनः। ।