द्वितीयः-(सूर्यमवलोक्य) कधापसङ्गेण अवरद्धा अहिसेअवेला !ता इवxअस्स पास्सवत्तिणो होम । [कथाप्रसङ्गेनापरुद्धाभिषेकवेला । तदुपाध्यायस्य पार्श्ववर्तिनौ भवावः ।]
( इति निष्क्रान्तौ)
विष्कम्भकः।
(ततः प्रविशति कञ्चुकी)
कञ्चुकी-
सर्वः कल्पे वयसि यतते लब्धुमर्थान् कुटुम्बी
पश्चात्पुत्रैरपहृतभरः कल्पते विश्रमाय ।
शमेवायं निग्रहानुग्रहः । पुरुषाणां मनसि किं वर्तत इति परिज्ञानिना महेन्द्रेण अनुग्रहोऽयं स्वरूपानुरूप एव कृतः इति भावः ।
द्वितीयः-(वेलापरिज्ञानाय सूर्यमवलोक्य)
कथाप्रसङ्गेन वार्ताक्रमात् गुरोरभिषेकस्य स्नानस्य वेला अपराद्धा अतिक्रान्ता । अतः उपाध्यायस्य पार्श्ववर्तिनौ भवावः। तस्यैव समीपं गच्छावः इति भावः ।
(इति निष्क्रान्तौ)
विष्कम्भकः-एकस्य अङ्कस्य समाप्तौ अन्यस्य च प्रारम्भवेलायां रङ्गभूमौ यददृष्टं भूतं भावि वा तस्य प्रेक्षकाणां परिज्ञानायार्थोपक्षेपकाः प्रयोज्याः॥यदुक्तम्-
"द्विधा विभागः कर्तव्यः सर्वस्यापीह वस्तुनः । |
तत्र च पञ्च अर्थोपक्षेपकाः-
"अर्थोपक्षेपकैः सूच्यं पञ्चभिः प्रतिपादयेत् । |
तत्र विष्कम्भकः-
"वृत्तवर्तिष्यमाणानां कथांशानां निदर्शकः ।
सङ्क्षिप्तार्थस्तु विष्कम्भ आदावङ्कस्य दर्शितः" ।
वृत्तवर्तिष्यमाणानां भूतभविष्यमाणानामिति ।
"ततः विष्कम्भानन्तरं कञ्चुकी प्रविशति । कञ्चुकी तावत् वृद्धः पुरुषः कर्तव्याकर्तव्यविवेकज्ञः राज्ञः शुद्धान्तचारी । तल्लक्षणं यथा---
"अन्तःपुरचरो राज्ञो वृद्धो विप्रो गुणान्वितः।
उक्तिप्रत्युक्तिकुशलः कञ्चुकीत्यभिधीयते ॥” इति धानञ्जये।
सर्व इति-सर्वः कुटुम्बी गृहस्थः कल्पे समर्थे वयसि अर्थान् वस्तूनि विषयान् वा लब्धुं प्राप्तुं यतते । साधारणोऽयं नियमः यत् गृहस्थी तारुण्ये