चित्रलेखा-सुदं तुए देवदूअस्स वअणम् । ता अणुजाणीहि महाराअम् । [ श्रुतं त्वया देवदूतस्य वचनम् । तदनुजानीहि महाराजम् । ]
उर्वशी-(निःश्वस्य ) णस्थि मे वाआविहवो । [ नास्ति मे वाग्विभवः।]
चित्रलेखा-महाराअ ! उव्वसी विण्णवेदि-परवसो अअं जणो । महाराएण अव्भणुण्णादा इच्छामि देअदेअस्स अणवरद्धं अत्ताणों कादुम् । [ महाराज ! उर्वशी विज्ञापयति-परवशोऽयं जनः । महाराजेनाभ्यनुज्ञाता इच्छामि देवदेवस्य अनपराद्धमात्मानं कर्तुम् । ]
राजा-( कथं कथमपि वचनं संस्थाप्य ) नास्मि भवत्योरीश्वरनियोगपरिपन्थी । किन्तु स्मर्तव्यस्त्वयं जनः ।
चित्रलेखा -त्वया देवदूतस्य श्रुतं वचनम् । अत एव महाराजम् अनु- जानीहि । महाराजात् गन्तुमनुज्ञां गृहाण । गमनायापृच्छस्वेति भावः।
उर्वशी-(निःश्वस्य शोकाकुलत्वात् ) मे वाग्विभवः वाचि सामर्थ्यं नास्ति । नाहं प्रभवामि अनुज्ञां ग्रहीतुम् । अनेन नायिकाया विरहकातरत्वं गम्यते ।
चित्रलेखा -महाराज : उर्वशी विज्ञापयति निवेदयति-
अयं जनः भवत्सु दत्तचित्तः परवशः पराधीनः । (तथापि ) महाराजेन अभ्यनुज्ञाता दत्तगमनाज्ञा विसर्जिता वा देवदेवस्येन्द्रस्यानपराद्धम् अपराधदूषणशून्यमात्मानं कर्तुं इच्छामि-यदि भवद्भिराज्ञा दीयते चेत् यथासमयं यथास्थानं प्राप्ता देवदेवाज्ञां विधित्सुरयं जनः इति उर्वशी निवेदयतीति भावः । गन्तुमाज्ञा गृह्णाति । विक्रमे वद्धभावत्वान्नायिकाया पराधीनत्वं, अत एव महाराजानुज्ञानप्रयत्नस्य च सामञ्स्यम् । अथवा महेन्द्राधीनत्वात् पारवश्यमुर्वश्याः इति अधरः पक्षः, प्रणयिन्या अपि प्रेमापरतन्त्रानुवर्तिवाङ्गीकारात् ।
राजा-(कथं कथमपि महता क्लेशेन वचनं संस्थाप्य खीकृत्य ददति-स एतादृग् वियोगकातरः सञ्जातो यद् वचनादानेऽप्यशक्तः।)
भवत्योः उर्वशीचित्रलेखयोः ईश्वरनियोगपरिपन्थी प्रभोराज्ञाभङ्गकर्ता न भवामि । नियोगः आज्ञा तस्य परिपन्थी विपक्षो विरोधी वा। किन्तु अयं जनः स्मर्तव्यः । भवतामेवाहमिति स्मृतिः परिपालनीया इति भावः ।
अत्र ईश्वरशब्दस्य ऐश्वर्यशालित्वम् प्रभुत्वमर्थः, न तु क्लेशकर्मविपाकादिभिरपरामृष्टपुरुपविशेषत्वम् । यतः प्रसिद्धा एव इन्द्रादीनां कर्मपरतन्त्रता, शतमखत्वेन इन्द्रत्वप्राप्तिश्रवणात् , ययातेश्च इन्द्रपदपरिच्युतिस्मरणाच्च ।