पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/१७५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७७
द्वितीयोऽङ्कः

न तथा नन्दयसि मां सख्या विरहिता तया ।
सङ्गमे दृष्टपूर्वेव यमुना गङ्गया यथा ॥ १४ ॥

 चित्रलेखा-णं पढमं मेहराई दीनदि, पच्छा विज्जुल्लदा । [ननु प्रथमं मेघराजिः दृश्यते पश्चाद्विद्युल्लता।]


 नेति -तया मद्बुद्धिस्थप्रकारावच्छिन्नया पूर्वदृष्टया अपूर्वया अनुपमसौन्दर्यया उर्वश्या विरहिता विहीना त्वं मां तथा तादृङ् न नन्दयति आनन्दयसि । तां विना त्वदागमनं न मदानन्दहेतुः, तद्विरहात् आनन्दात्यन्ताभावात् । यथा सङ्गमे प्रयागे दृष्टपूर्वा यमुना पश्चात् गङ्गया विहीना दृष्टा सती न तथा तादृशं आनन्दं ददाति । यथा वा गङ्गायमुनयोः सङ्गने द्ष्टशोभा यमुना यदि गङ्गां विना पुनरपि दृष्टा चेत् न ना तादृशीमभिख्यां धत्ते न च प्रेक्षकान् , नन्दयति तथैव उवर्श्या विना एकाकिनी त्वं मदाल्हादजनयित्री भवितुं नार्हसि इति भावः । अत्र उपमालङ्कारः । विनार्थसम्बन्धात् विनोक्तिश्च। अनेन गङ्गासदृशत्वप्रतिपादनेन नायिकायाः शुभ्रत्वं परमगाम्भीर्यं च सूच्यते । अत्र पूर्वार्धे तथेति पदम् उत्तरार्धगतस्य यथेतिपदस्य सहकारित्वात् केवलमौपम्यसूचकं न, परन्तु तथेति पदमत्र नन्दयतेः आनन्दनव्यापारस्य इयत्तासूचकं परिमाणवोधकं क्रियाविशेषणम् ! यावदानन्दमुर्वशीसहकृता त्वं ददासि न तावत्त्वं तदसहकृतेति भावः, अतएव तथेति क्रियाविशेषणस्य उपमेयोपमानोभयकोट्योः अन्वयो विधेयः । सरलार्थस्तु-यथा प्रयागे गङ्गयासह सङ्गता यमुना एकदा दृष्टा सती पश्चात् एकाकिनी दृष्टा चेन्न तादृक्प्रमोदहेतुर्भवति एवमेव कमनीयया कामिन्या प्रियसख्या उर्वश्या सह एकदा दृष्टा त्वमिदानीमेकाकिनी मिलिता सती तादृशं (तावत्परिमाणकं ) मे विनोदं न विदधासीति उत्कण्ठितस्य नायकस्य आकूतम् ।। अनुष्टुब् वृत्तम् ॥ १४ ॥

 चित्रलेखा-ननु अवधारणे । प्रथमं मेघराजिः जलदपङ्क्तिः दृश्यते, पश्चात् विद्युल्लता । आदो अहं दृष्टा पश्चात्सापि आगमिष्यति यथा प्रथमं मेघाः दृश्यन्ते पश्चात्तडिद्दर्शनम् । अनेन तस्यां विद्युत्त्वारोपणेन दीप्तिमत्त्वं, चाञ्चल्यम् , ईषत्कालपर्यन्तं स्थितिश्च तस्याः व्यज्यते । अत्र सुन्दरं कियदाह्लादकं परम्परितरूपकम् । यदि चित्रलेखायां प्रथमप्रादुर्भावात् मेघराजित्वारोपणं सम्पद्यते तदा तस्यामपि विद्युलतात्वारोपणं भवेदिति निगीर्याध्यवसानाद् रूपकातिशयोक्तिः । पूर्व 'न तथा नन्दयसीति' पद्ये नायकेन उर्वशीचित्रलेखयोः दिव्याङ्गनयोः सततप्रवाहिन्योः नद्योः गङ्गायमुनयोरध्यवसानात् नायिकायाः गङ्गासदृशमत्रत्यं सातत्यं विज्ञापितमभूत् किन्तु वाक्केलिनिपुणया चित्रलेखया मेघपङ्क्तिविद्युल्लतयोरध्यवसानादचिरस्थायित्वं झगिति दृश्यमानत्वं आशुगामित्वमात्मनः ख्यापयन्त्या नायकोक्तिः प्रत्याख्याता; अनेन च पूर्ववद् युवयोः सम्मेलनमाशु भावि, परश्च विरहोऽपि नूनं तथैवेति रसतन्त्रकोविदया दूत्या सम्यग् ध्वनितमित्यतो वक्रोक्तिचमत्कृतिरत्र विभावनीयेति रहस्यम् ॥