पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/१७४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७६
विक्रमोर्वशीये

 विदूषकः-(गृहीत्वा) तदो किं तत्तभोदी उव्वसी भवदो मणोरहतरुकुसुमं दंसिअ फले विसंवदिस्सदि ? [ततः किं तत्रभवती उर्वशी भवतो मनोरथतरुकुसुमं दर्शयित्वा फले विसंवदिष्यति ?]

 उर्वशी–हला! जाव उवत्थाणकादरं अत्ताणअं समवत्थावेमि, ताव तुमं अत्ताणअं दंसिअ जं मे अणुमदं तं भणाहि । [ सखि ! यावदुपस्थानकातरमात्मानं समवस्थापयामि, तावत्त्वमात्मानं दर्शयित्वा यन्मेऽनुमतं तद्भण ।]

 चित्रलेखा-तहा।[तथा।] (इति तिरस्करिणीमपनीय राजानमु- पसृत्य) जेदु जेदु महाराओ । [जयतु जयतु महाराजः।]

 राजा-(सम्भ्रमादरगर्भम् ) स्वागतं भवत्यै ( पार्श्वमवलोक्य ) भद्रे !


 विदूषकः-(गृहीत्वा-तत्पत्रमिति भावः) ततः परस्परालम्बनत्वेऽपि किम् तत्रभवती मान्या उर्वशी भवतः मनोरथः एव तरुः तस्य फलागमसूचकं कुसुम प्रदर्श्य पश्चात् फले विसंवदिष्यति मिथ्या भविष्यति । कुसुमागमानन्तरं क्वचिदेवेदं भवति यत् तरुषु फलं न दृश्येत । तथैव तदुपलब्धिरूपभवन्मनोरथानोकहे एतत्पत्रप्रेषणरूपकुसुमं प्रदर्श्य किं सा उर्वशी समागमरूपफले मिथ्यात्वं प्राप्स्यते। प्रायः नैतत्सम्भवमिति भावः। अत्र उर्वश्याः तत्रभवतीति विशेषणम् परं साकूतम् , मान्यस्यैतादृशः फलविसंवादः अयोग्य एव इति सामान्यवस्तुज्ञापनात्, अत एवात्र परिकरालङ्कृतिः । यथा कुसुमदर्शनानन्तरं तरुषु नान्तरीयकतया फलावगमः, एवमेव पत्रप्रेषणमनु नूनं समागमो भावीति साम्यादभूतार्थस्य कल्पनादिह अभिप्रायो नाम नाटकलक्षणम्-'अभिप्रायस्तु सादृश्यादभूतार्थस्य कल्पनेति' वचनात् । मनोरथतरुरित्यत्र रूपकम् । फले न कदापि विसंवदिष्यतीति तात्पर्यावगमादर्थापत्तिरलङ्कारश्च । एतेषां च संसृष्टिः ॥

 उर्वशी-सखि चित्रलेखे ! यावता समयेन उपस्थाने उप तस्य समीपे स्थाने स्थितौ तत्समीपागमे कातरं भीरु आत्मानं समवस्थापयामि समाश्वासयामि तावता कालेन त्वं आत्मानं दर्शयित्वा तिरस्करिणीं विहाय सर्वलक्ष्या भूत्वा यत् मे मम अनुमतं वाञ्छितं तद्भण तत् सर्वं तस्मै विज्ञापय । भावाभिव्यक्तेरयमपरः प्रकारः यथाह विश्वनाथः-'दूतीसम्प्रेषणैर्नार्या भावाभिव्यक्तिरिष्यते'।

 चित्रलेखा--तथा-उचितम् , तथैव करोमि । (इति तिरस्करिणीं अलक्ष्यतामपनीय दूरीकृत्य राजानमुपसृत्य) जयतु जयतु महाराजः । जयपाठेन महाराजस्य कल्याणशंसनं करोति ।

 राजा-(सम्भ्रमः विस्मयजन्यं भयम् तत्सहितं चित्रलेखाविषये आत्मनः प्रियायाः सखित्वात् आदरं प्रदर्श्य ) खागतं भवत्यै-इति समुदाचारः। (पार्श्वमवलोक्य इत आस्यताम् इति बोधयति ) भद्रे कल्याणिनि !