पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/१५०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५२
विक्रमोर्वशीये

इदो इदो भवम् । [इत इतो भवान् ।]

(इति परिक्रामतः।)

 विदूषकः-एसो पमदवणपरिसरो । क्वाणमिअ पत्तुवगदो भवं आअन्तुओ दक्षिणमारुदेण । [एष प्रमदवनपरिसरः । आनम्य प्रत्युपगतो भवानागन्तुको दक्षिणमारुतेन ।]

 राजा-(विलोक्य ) उपपन्नं विशेषणमस्य वायोः । अयं हि-----

  निषिञ्चन् माधवीं लक्ष्मीं लतां कौन्दीं च लासयन् ।
  स्नेहदाक्षिण्ययोर्योगात् कामीव प्रतिभाति मे ॥ ४ ॥


राज्ञा सह क्षुधापीडितोऽपि गच्छामि । (प्रकाशम् ) इतः इतः भवान् अनेन पथा आगच्छतु इति प्रमदवनमार्गं प्रदर्शयति ।

 इति उक्त्वा विदूषकराजानौ प्रमदवनं जिगमिषन्तौ रङ्गभूम्यां इतस्ततः परिक्रामतः।

 विदूषकः-एषः प्रमदवनपरिसरः प्रमदवनसमीपस्था भूमिः । “पर्यन्तभूः परिसरः” इत्यमरः । आगन्तुकः अतिथिर्भवान् दक्षिणमारुतेन दक्षिणदिक्तः वहता वायुना आनम्य प्रणम्य प्रत्युपगतः स्वागतीकृतः । दक्षिणवायुरतिथिं त्वां स्वागतं करोतीति भावः । 'आगन्तुरतिथिर्ना गृहागत' इत्यमरः ।

 राजा-(विलोक्य-वायुगतिं निरूप्येति भावः) अस्य दक्षिणदिशा आगतस्य वायोः दक्षिणेतिविशेषणमुपपन्नं युक्तम् । अत्र विदूषकप्रयुक्तस्य दिग्वाचकस्य दक्षिणपदस्य राज्ञा श्लेषमर्यादया अनुकूलरूपार्थे पर्यवसानम् । अयं हि-कीदृशोऽयं वायुरिति निरूपयति----

 निषिञ्चन्निति-मधोः वसन्तस्य इयं माधवी तां वसन्तसम्बन्धिनीं लक्ष्मीं शोभां निषिञ्चन् नितरां सिञ्चन् पुष्णन् अतिशयां कुर्वन् तथा च कौन्दीं लतां लासयन् नर्तयन् अयं वायुः स्नेहदाक्षिण्ययोः प्रेमानुकूलत्वयोर्योगात् सद्भावात् कामीव प्रतिभाति दृश्यते।

 यदा वायुर्वहति तदा लता तु कम्पते तत्रोत्प्रेक्षते कविर्यत् लतां नर्तयति वायुः किलेति । स्वभावोऽयं कामुकस्य यत् या नायिका नववयोविशेषशालिनी भवति तस्यां नितरां प्रीतिं निषिञ्चति तथा च प्रगल्भां तावत् पुनः केवलं नर्तयन्नेव तस्यां प्रीतिं प्रकाशते । तथैव वायुः नववयस्कां वासन्तीं लतां स्नेहेन निषिञ्चति, प्रगल्भां तां भ्रमरादिभिर्भुक्तशेषां कौन्दीं केवलं नर्तयति, तेन तस्य कामुकत्वं स्पष्टमेव ।

 सरलार्थस्तु-वासन्तीं शोभां स्नेहेन विवर्धयन् नर्तयंश्च कौन्दीं लतां दाक्षिण्येनायं वायुः कामीव सम्यग् लक्ष्यते ।

 “वासन्ती माधवी लता" इत्यमरः । दाक्षिण्यं हि परच्छन्दानुवर्तित्वं आनुकूल्यं वा।