पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/१५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

समाश्वासयामास। चित्रलेखा चैवंवादिनं राजानं दृष्ट्वाप्यननुग्रहां अतीवनिष्ठुरां प्रियसखीं सोपालम्भं कथमद्याप्यसन्तुष्टे विरमसीति सम्यगन्वयुक्त। राजन्यगाधप्रणयोर्वशी प्रभावपिहितं स्वं विस्मरन्ती “सखि चित्रलेखे ! अग्रतः स्थितायामपि मय्युदासीनो महाराजः” इति समाख्यापयन्ती चित्रलेखया असङ्क्षिप्ततिरस्कारण्यसीति स्मारिता सती विस्मिता बभूव । अत्रान्तरे नेपथ्ये इदो इदो भट्टिणीति घोषणामाकर्ण्योर्वशी स्वसम्मेलनान्तरायमनन्तरभाविनं विचार्य सह सख्या विवादमाप । विदूषकश्च सम्प्राप्ता देवीति विज्ञापनपरः संवृताकारस्तिष्ठति राज्ञा आदिष्टः तथाभूत एव आस ।उर्वशी चेदानीं किङ्कर्तव्यतामूढा सती चित्रलेखया विहितनियमवेषा राजमहिषी चिरं नात्र स्थास्यति त्वञ्चान्तरितासीति अलमावेगेनेति प्रार्थिता किमिदानीं भवितेति दर्शनपरा समतिष्ठत्।

 ततश्च धृतोपहारपरिजनेनानुगम्यमाना देवी रोहिणीयोगेन समधिकशोभाधारिणं मृगलाञ्छनं वर्णयन्ती “देवीसहितस्य भर्तुः ईदृश्येव विशेषरमणीयता भावीति" चेटीभिः प्रत्युक्ता, स्मितविलासवदनाया देव्याः दर्शनेन मर्षितापराधेयं मयि प्रसन्ना देवीति प्रतिभानवन्तं राजानमुपगम्य जयघोषमुदीरयति सप्रणयम् । राजा च देवीं स्वागतां प्रकाशयति, उर्वशी चौशीनरीं शचीतोऽहीनतेजस्विनीं विलोक्य देवीपदयोग्यत्वं तस्याः परामृशति । देवी च सविनयम् 'आर्यपुत्रं पुरस्कृत्य व्रतविशेषः सम्पादनीयो मयेति' कृत्वा कञ्चित्कालमुपरोधः सह्यतामिति राजानं प्रार्थितवती । राजा च नायमुपरोधोऽनुग्रहः खलु इति मधुरं वदन् किन्नामधेयमिदं व्रतमिति पप्रच्छ प्रियप्रसादनमिति चेट्या निवेदितो राजा मृणालकोमलायाः अस्या अङ्गयष्टेः व्रतेन ग्लपनं वृथेति प्रकाशयन् "प्रसादमाकाङ्क्षति यस्तवोत्सुकः स किन्त्वया दासजनः प्रसाद्यत" इति बहुशः सचाटुकारं प्रियं प्रियः स समभाषत । “महान् खल्वस्यामस्य बहुमानः” इति सवैलक्ष्यस्मितं कथयन्ती प्रियसहचरी चित्रलेखया अन्यसङ्क्रान्तप्रेमाणो नागराः भार्यायामधिकं दक्षिणा भवन्तीति सत्यमेवाभाषि । ततश्च देवी समादिश्य परिजनमुपहारादिकमानेतुं विविधैः पूजापरिमलद्रव्यैः भगवतश्चन्द्रमसः पादानर्चति । खस्तिवाचनिकं कञ्चुकिने विदूषकाय च यथामानं दत्वा एषाऽहं देवतामिथुनं रोहिणीमृगलाञ्छनं साक्षीकृत्यार्यपुत्रमनुप्रसादयामि । अद्यप्रभृति यां स्त्रियमार्यपुत्रः कामयते या चार्यपुत्रसमागमामिनिवेशिनी तया सदा अप्रतिबन्धेन मया वर्तितव्यमिति व्रतं जग्राह । उर्वशी चैनं वचनमबुध्द्वा चित्रलेखां पृच्छति । सा च प्रियसमागमस्ते पतिव्रतयाऽनयाऽभ्यनुज्ञात इति तामर्थं व्रतस्य व्यख्यापयत् । राजा च नाहमन्यनारीसङ्क्रान्तमना इति बहुशोऽलीकमपालपत् । देवी च भवतु न वेति सुसम्पन्नं मद्गतम् आगच्छत परिजना गच्छामो वयमिति वदन्ती "प्रिये ! न खलु प्रसादितोऽस्मि यदीदानीं विहाय मां गम्यते” इति राज्ञः आपातरमणीयं वचनमश्रुत्वैव सपरिजना निष्क्रान्ता ।

 एतादृशं सप्रणयं दम्पत्योः व्यवहारं दृष्ट्वोर्वशी प्रियकलत्रो हि राजर्षिरिति बहुमानेन कथयति । राजा च ततः आसनादुत्थाय दूरं गतां देवीं विज्ञाय