पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/१४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

मार्गे प्रतिपालयन् स्थितः । ततः सविदूषकं परिवारेणानुगम्यमानं रणभूमिं प्रविशन्तम् अनङ्गबाणव्यथिताङ्गयष्टिं कार्यव्यापारवशादनतिदुःखेन दिनं गमितं कथं नु अविनोददीर्घयामा यामिनीदानीं यापयितव्येति नितान्तमन्तःसन्तापसन्तप्तं नृपतिमुपेत्य कञ्चुकी जयपुरःसरं मणिहर्म्यपृष्ठे चन्द्रस्य सुदर्शनत्वात्तत्राहं सन्निहितेन देवेन रोहिणीसंयोगपर्यन्तम् प्रतिपालयितुमिच्छामीति देवीवचनं निवेद्य राज्ञोऽङ्गीकारवचनमङ्गीकृत्य निश्चक्राम। राजा च माननी देवी कथं मां स्वयमेव मयानुपश्लोक्यमानापि आहूतवतीति किं सत्यम् व्रतनिमित्तमिदमिति विचिकित्साक्रान्तचेताः वयस्येन तदुत्तरेऽत्रभवती संजातपश्चात्तापा व्रतव्यपदेशेन तत्रभवतः प्रणिपातलङ्घनापमानमपगमयितुमिच्छन्ती भवेदिति लब्धतर्कः दयितप्रणिपातानुलङ्घिनीनां मानिनीनां मनस्वनीनाम् अनुशयवतीं निसर्गजां प्रकृतिं वर्णयन् विदूषकं मणिहर्म्यपृष्ठस्य मार्गमादेष्टुमादिदेश । विदूषकश्च सरलेन मार्गेण राजानं तत्र नीत्वा मणिशिलासोपानेन यथानिर्दिष्टं स्थलमारुह्यतामिति प्रार्थयति । राज्ञः तदारोहणानन्तरं सर्वे सोपानारोहणं रूपयन्ति । विदूषकश्च निरूप्यावसरं तिमिररहितं प्राचीदिङ्मुखमवलोक्य आसन्नं चन्द्रोदयं मनुते । राजनि च चन्द्रस्यालौकिकीमुदयसुषुमां वर्णयत्येवौषधीनां पतिर्गगनं व्यभूषयत् । राजा च उदितं नलिनीदयितं प्रणामपुरःसरम् उपस्तौति । तत्र च चन्द्रिकायामभिव्यक्तायां दीपिकानां व्यर्थत्वं परिज्ञाय तदुपशान्तये परिजनं समादिश्य विदूषकवचनेनासने समासीनः चन्द्रमवलोक्य देव्या आगमने मुहूर्तावसरं ज्ञात्वा विविक्ते स्वामवस्थां वर्णयितुं प्रचक्रमे । तत्र च वर्णनाप्रमुख एव दक्षिणस्य बाहोरास्पन्दनरूपं सुनिमित्तं चिन्तयन् अचिरेणैव प्रियया समागमं भाविनं मत्वाऽऽत्मानं धारयति ।

 ततश्चाभिसरणवेषशोभावर्धिताङ्गसौन्दर्या सचित्रलेखा तत्रभवत्युर्वशी प्रविशति । उर्वशी कृतनवाभिसरणवेषा आत्मानं निरूपयन्ती मुक्ताभरणभूषितंनीलांशुकपरिग्रहः कथं ते रोचते इति चित्रलेखां पृच्छति। सा च "प्रशंसनाय मे नास्ति वाग्विभवः, पुरूरवा एव अथवाहं भवेयमिति" उत्तरं ददाना प्रियतमस्य नामधेयश्रवणेनाधीरां धारयति प्रियसखीमुर्वशीम् । तथा च महाराजस्य भवनं संप्राप्य क्वास्ते मम हृदयङ्गम इति सख्या कृतप्रश्ना उपभोगयोग्ये सुस्थले खस्थः स मनोरथलब्धं प्रियासमागमसुखं अनुभवन् दृश्यत इति उपहासपरायणा बभूव । श्रुत्वा वचनमिदमसूयापरमप्यनसूयां "न मे हृदयं प्रत्येति-" इति स्वप्रेम्णः गाढावस्थां प्रकाशयन्तीं उर्वशी चित्रलेखा मणिहर्म्यप्रासादगतं राजर्षिं वयस्यमात्रैकसहायं विज्ञापयति । तत्रोपेत्य उभे राज्ञः "रजन्या सह मदनबाधा विजृम्भत" इति वचनं निशम्य समुद्भूतकुतूहले द्रुमान्तरालेऽन्तरिते संलापं श्रोतुं जोषमतिष्ठताम् । ततश्च विदूषकः परमशीतलान् शीतरश्मेः रश्मीन् सेवितुमभ्यर्थयते । किन्तु नरपतिः एकामुर्वशीमेव स्वसुखसम्पन्निधेस्तालिकां मन्वानः कुसुमशयनं चन्द्रमरीचिचयं वा सर्वमनर्थकारणमेव केवलं चिन्तयन् मनसिज रुजमपोहितुं दिव्या उर्वशी तदाश्रयिणी कथा वा केवला अलं भवेदिति स्वहृदयाधिदेवतां बहु प्रशशंस । विदूषकश्च वयस्यसमुचितं त्वं तामचिरेण लब्धासे' इति