पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/१४८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५०
विक्रमोर्वशीये

 विदूषक: -ण खु दे दुल्लह त्ति तक्केमि । [न खलु ते दुर्लभेति तर्कयामि।

 राजा-पक्षपातोऽपि तस्यां सद्रूपस्यालौकिक एव ।

 विदूषकः-एवं मन्तअन्तेण मे वड्ढिदं कोदूहलम् । किं तत्तभोदी उव्वसी अद्दुदीआ रूएण; अहं विअ विरुवदाए ? [एवं मन्त्रयता मे वर्धितं कौतूहलम् । किं तत्रभवती उर्वशी अद्वितीया रूपेण अहमिव विरूपतया ?]

 राजा-माणवक! प्रत्यवयवमशक्यवर्णनां तामवेहि तेन हि समासतः श्रूयताम् ।

 विदूषकः-भो, अवहिदोम्हि । [भोः, अवहितोऽस्मि ।]

 राजा-

आभरणस्याभरणं प्रसाधनविधेः प्रसाधनविशेषः ।


 विदूषकः-तेन सा खलु दुर्लभा इति नाहं तर्कयामि । तव एतादृशस्य निर्जितमारस्य सुकुमारस्य रूपमवेक्ष्य सापि मुग्धा भविष्यति च त्वां विना उत्कण्ठिता सती त्वां कामयिष्यतीत्यनेन न सा तव दुर्लभा ।

 राजा-सद्रूपस्य सतः सुन्दरस्य समीचीनस्य वा रूपस्य तस्यामुर्वश्यां पक्षपातः अत्यन्ताग्रहपूर्वकं संस्थितिः अलौकिक एव विलक्षणः एव । रूपेण तस्याः पक्षः गृहीतः । सा तु मत्तः सौन्दर्ये परतरा इति भावः ।

 विदूषकः-एवं पूर्वोक्तप्रकारेण उर्वशीविषयं मन्त्रयता कथयता त्वया मम कौतूहलम् उत्साहो वर्धितः । किं तत्रभवती उर्वशी रूपेण अद्वितीया अनुपमा अस्ति यथाऽहं विरूपतायामद्वितीयोऽस्मि । यादृशोऽहं कुरूपतायामनुपमोऽस्मि तादृशी एव सा किं सौन्दर्येणाद्वितीयास्ति ? अनया भङ्ग्या नायकमुखेन वर्णयितुमिच्छति कवीन्दुः कालिदासः । अत्र एकत्र सुरूपतायामद्वितीयत्वेन परत्र विरूपतायामद्वितीयत्वेन अद्वितीयत्वसाधर्म्यप्रदानेनोपमालङ्कृतिः । इयं विरुद्धधर्मावच्छिन्नसाम्योपमा ।

 राजा-माणवक! अवयवे अवयवे इति प्रत्यवयवम् । प्रत्यवयवं अशक्यं वर्णनं यस्याः सा इति तादृशीं तां अवेहि जानीहि । तस्याः प्रत्येकस्यावयवस्य वर्णनं न शक्यमस्तीति जानीहि । तेन हि अस्मात् कारणात् समासतः संक्षेपेण श्रूयताम् ।

 विदूषकः-श्रोतुं अवहितोऽस्मि, सावधानोऽस्मि, स्थिरचित्तोऽस्मीत्यर्थः ।

 राजा-हे सखे माणवक ! तस्या उर्वश्याः वपुः शरीरम् आभरणस्य कटककुण्डलादीनामलङ्काराणामपि आभरणम् भूषणमस्ति । अलङ्कारैः ईदृशमलकार्यं प्राप्तमिति तेषामेव शोभा, तस्या विलक्षणरूपशालित्वात् । तथा च प्रसाधन विधेः