पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/478

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लता वीरुधः ‘लता प्रतानिनी वीरुद्' इत्यमरः । भृङ्गालीभिर्भ्रमरपंक्तिभिज्याँ मौवींमधिगत अधिज्यं सज्जं मन्मथस्य कामस्य धतुश्चापस्तस्य लीलां शोभां लभन्ते प्राप्नुवन्ति ॥ किं पुष्पं कुसुमं पुष्पधनुषः कामस्य त्रैलोक्यस्य त्रिभुवनस्य जैत्रं जयनशीलमस्त्रं तस्य भावस्त्रैलोक्यजैत्रास्त्रता तां न विभति न धारयत्यपि तु सर्वाणि पुष्पाणि त्रैलोक्यजैत्रास्त्रतां धारयन्त्येव । दोलासु प्रेङ्खास्वान्दोलनकेलय दोलावेगेनोपर्यधोगमनक्रीडास्ताभिलोलाइचला वनितास्तासु सञ्चारितानि सम्प्रापितान्यस्त्राणि येन स अथवा वनिता एबाऽङ्गना एव सञ्चारितानि प्रयुक्तान्यस्त्राणि येन सः पञ्च इषवो बाणा यस्य सः कामोऽधुनेदानीं वसन्तसमये चलान्यस्थिराणि लक्षाणि शरव्याणि ‘लक्षं लक्ष्यं शरव्यं च' इत्यमरः । अङ्गनारूपाणि कामुकरूपाणि वा तेषां भेदो विदारणं तस्य विधिः करणं तेन गर्व दर्प समारोहति प्राप्नोति । स्थिरलक्ष्यभेदादस्थिरलक्षभेदनं कठिनमिति दर्पहेतुः । काव्यलिङ्गमलङ्कारः । शार्दूलविक्रीडितच्छन्दः । भाषा लताएँ, भौंरों की कतारों से युक्त होने से कामदेव के मौर्वी से युक्त अर्थात् सज्ज धनुष की शोभा को प्राप्त कर रहीं हैं। कौन फूल, कामदेव के, तीनों लोकों को जीतने योग्य अस्त्रत्व को नहीं धारण करते हैं अर्थात् सभी फूल तीनों लोकों को जीतने वाले अस्त्र का काम करते हैं। हिंडोले के, ऊपर नीचे होने की क्रीड़ा से चंचल कामियों और कामिनिओं पर अस्त्र का प्रयोग करने वाला कामदेव इस वसन्त ऋतु में अस्थिर निशाने का भेदन करने के कार्य से, या चंचल कामिनी रूपी अस्त्र का प्रयोग करने वाला कामदेव इस वसन्तऋतु में कामुक रूपी अस्थिर निसाने का भेदन करने के प्रावीण्य से, घमण्ड कर रहा है। उन्माद्यन्मधुपेन पुष्पमधुना केलीभुवः पङ्किलाः