पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/444

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

च्छादिते प्रकटीभूते सति मनोभूः कामः किमप्यनिर्वचनोयं यथास्यात्तथोच्छ्वसित उल्लासयुक्तः सानन्द इत्यर्थः । अभूज्जातः । नारीणां गुह्याङ्गदर्शनेन यूनामनिर्वचनीयाऽऽनन्दप्राप्तिरभूदिति भावः । भाषा झूला झूलते समय दोनों हाथों से दृढ़तापूर्वक हिंडोले की चञ्चल रस्सियों को पकड़ रखने वाली अङ्गनाओं के, नीवी की गांठ खुल जाने से, और धोती सरक पड़ने से जघनस्थल के दिखाई पड़ने पर कामदेव अनिर्वचनीय उल्लास को प्राप्त हुआ । अर्थात् स्त्रियों के गोपनीय अङ्गों को देखने से युवकों को एक विशिष्ट आनन्द मिलता है। त्वरोपयातप्रियबाहुपाश-रुद्धेषु कण्ठेषु वियोगिनीनाम्। वृथासमाहूतकृतान्तपाशः स्मितं लतानां मधुराततान ॥३०॥ अन्वयः वियोगिनीना कण्ठेषु त्वरोपयातप्रियबाहुपाशरुद्धेषु (सत्सु) वृथासमाहूतकृतान्तपाशः मधुः लतानां स्मितम् अाततान । व्याख्या वियोगिनीना विरहिणीना कण्ठेषु ग्रीवासु त्वरया शीघ्रतयोपयातास्संप्राप्ताः प्रियाः कान्तास्तेषा बाहवो भुजा एब पाशा रज्जवस्तै रुद्धेषु सत्सु वृथैव मुधैव समाहूतस्संप्रापितः कृतान्तस्य यमस्य पाशी येन स मधुर्वसन्तो चैत्रमासो वा लतानां वीरुधां स्मितमीषद्धास्यं विकासमित्यर्थः । अाततानि विस्तारयामास । वसन्तागमनेनोद्दीपितमदनाना विरहिणीना कामिनीता झटिति प्रियालिङ्गनप्राप्त्या वसन्तजन्यमन्मथसंतापे सत्यपि प्राणवियोगो न जात इति दृष्ट्वा स्त्रीत्व