पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/429

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

देया शिलापट्टकपाटमुद्रा श्रीखण्डशैलस्य दरीगृहेषु। वियोगिनीकण्टक एष वायुः कारागृहस्यास्तु चिरादभिज्ञः ॥&॥ अन्वयः श्रीखण्डशैलस्य दरीगृहेषु शिलापट्टकपाटमुद्रा देया। (येन ) विनियोगिनीकण्टकः एषः वायुः कारागृहस्य चिरात् अभिज्ञः अस्तु । তিতাবৰ্ত্তয়া श्रीखण्डशैलस्य चन्दनाद्वेर्मलयाचलस्य दरीगृहेषु कन्दरागृहेषु 'दरी तु कन्दरो वास्त्री' इत्यमरः । शिलापट्टाः प्रस्तरखण्डपट्टा एव कपाटानि तेषां मुद्रा प्रावरणं देया निवेश्या येन कारणेन शिलामुद्रणरूपेण वियोगिनीकण्टको विरहिणीनां हृदि कण्टकवच्छल्यबद्वन्यथाजनक एष प्रसिद्धो वायुर्दक्षिणानिलः कारागृहस्य बन्धनालयस्य ‘प्रग्रहोपग्रही बन्द्यां कारास्याद्वंधनालये' इत्यमरः । चिराच्चिराय बहुकालपर्यन्तमित्यर्थः । अभिज्ञस्तन्निवासजन्यदुःखानुभविताऽस्तु जायताम् । परपीडकः कारागृहनिवासयोग्य इति भावः । भाषा मलयाचल के कन्दरा रूपी घरों को पत्थरों की चट्टान रूपी किवाड़ों से बन्द कर देना चाहिये। जिससे (उन कन्दराओं में रहने वाला) विरहिणियों के हृदय में काँटे गड़ाने के समान पीड़ा देने वाला यह दक्षिणानिल चिरकाल तक कैदखाने में रहने के दुख का अनुभव करे। क्योंकि जो दूसरों को व्यर्थ दु:ख देता है वह कैदखाने में जाने योग्य है। ו-"SS=NRצח ידנדה ב דת הבינדנביחדTRI"כ אb+5 . "גA"יש"-&