व्याख्या
किंस्विदथवा किमितोऽस्माद्रणाङ्गणादपसरणं पलायनं करोमि । एष मे बाहुर्भुजो गोत्रस्य मत्कुलोत्पन्नस्य ज्येष्ठभ्रातुस्सोमदेवस्य वधाय नाशाय न प्रसरति व्यापारं न कुरुते । परं किन्त्वयं दुष्टलोको दुर्जनसमूहोऽयशांस्यपकीर्तीर्मयि विक्रमाङ्कदेवे निपात्य निक्षिप्य किमप्यनिर्वचनीयं प्रमोदमानन्दमेति । सज्जनास्तुभ्रातुः संरक्षणार्थं रणं विहाय गत इति यथार्थं कथयिष्यन्ति परन्तु दुर्जना भीत्यैवाऽयं पलायित इति मनसि निधयऽिपयशः प्रसार्य प्रमोदमुद्वहिष्य*न्तीति भावः ॥
भाषा
अथवा क्या मैं रणभूमि से भाग चलू ? यह मेरी भुजा अपने कुल के प्राणी का नाश करने मे अग्रसर नहीं होती है। परन्तु दुष्ट लोग भय से रण छोड़कर भाग गया-ऐसा मेरा अपयश फैलाकर आनन्द करेंगे ।
|
इति गिरमभिधाय निष्कलङ्कां विशदमनाः शनकैर्यशोधनोऽसौ । |
अन्वयः
विशदमनाः यशोधनः असौ राजपुत्रः इति निष्कलङ्कां गिरं शनकैः अभिधाय कति अनुनयवचनानि तस्य पार्श्वे न विसर्जयति स्म ।
व्याख्या
विशदं निर्मलं मनश्चित्तं यस्य स निर्मलचित्तो यश एव कीतिरेव धनं वित्तं यस्य सःकीतिवित्तोऽसौ राजपुत्रो विक्रमाङ्कदेव इति पूर्वोक्तां निष्कनिष्कलङ्क