पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/350

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अय: अधिकेन वयसा किं करोषि, मे शिरसि पादपप्लवः क्षिप्यताम् । किं वयेोधिकैः अद्यजातम् अपि अमलं रत्नं मूर्धिन न धार्यते । व्याख्या अधिकेन त्वदपेक्षयाऽधिकेन वयसाऽवस्थया वार्धक्यविचारेणेत्यर्थः । किं व्क रोषि कथं निषेधसि ॥ मे मम शिरसि मूध्नि पादश्चरण एव पल्लवः कोमलप्रत्रं चरणपल्लवः क्षिप्यताम् निधीयताम् ॥ किं कथं वयसाऽवस्थयाऽधिकाः श्रेष्ठास्तैर्वयोवृद्धैरद्यजातमद्यैवोत्पन्नं शाणादिना सज्जीकृतं नवीनमित्यर्थः । अध्यमलं निर्मलं रत्नं मणिमूर्धन शिरसि न धार्यते नोह्यते, अपि तु घार्यत एष्टुव ॥ वृष्टान्तालङ्कारः ॥ RITST मैं अवस्था में बड़ा हूँ ऐसा विचार कर क्यों मुझे चरण पर पड़ने से रोकते हो । मेरे मस्तक पर अपना चरणपल्लव रक्खी अर्थात् मुझे चरण पर पड़कर प्रणाम करने दो । क्या वयोवृद्ध आज ही प्राप्त अर्थात् नवीन निर्मल मणि को अपने मस्तक पर नहीं धारण करते अर्थात् करते ही हैं। इत्युदीरितवता निरन्तरं तेन हर्षजलपूर्णचक्षुषा । कुन्तलैन्दुरगमन्मुदं परां द्राविडक्षितिपमालिलिज्ञ च ॥८४॥ अयः इति उदीरितवता निरन्तरं हर्षजलपूर्णचक्षुषा तेन कुन्तलेन्दुः परां उमुदम् अगमत् द्राविडक्षितिपम् आलिलिङ्ग च ।