सुरभाकृतनन्दनस्यन्द्रवनस्य द्रुमा वृक्षास्तषा निकुञ्जा लतादापाहतादराः 'निकुञ्जकुञ्जौ वा क्लीबे लतादिपिहितोदरे' इत्यमरः । तेषु पुञ्जिता एकत्रीभूतास्तैर्नन्दनोद्यानवृक्षकुञ्जसञ्चितैः पांसुभिः क्षितितलोत्थितरेणुभिश्चौर्येणाऽप्रशस्तरूपेण केलिः क्रीडा चौर्यकेलिः परपुरुषैस्समं परनारीणां रतोत्सवस्तदर्थं शयनं शय्या तस्मिन् शयनरचनार्थमुपयोगस्तस्मात् चौर्यरतिशूय्यानिर्माणार्थोपयोगात् तुष्यति स्म सन्तोषं प्राप्नोति स्म । नन्दनोद्यानपर्यन्तमुत्थितायास्तदाच्छाद्य स्थितायाश्च धूले; कोमलत्वाच्चौर्यक्रीडारतसुरपांसुलाजनस्य कोमलशय्याप्राप्त्या सुमहान् सन्तोषो जात इति भावः । अत्रातिशयोक्तिरलङ्कारः ।
|
भाषा |
स्वच्छन्द विहार करने वाला स्वर्गीय स्त्री समूह, पृथ्वी से उठ कर नन्दन वन के कुञ्जों में फैली हुई और पुष्परज से सुवासित धूलि के कारण (उस भूमि के नरम हो जाने से) छिपकर विषयादि करने में कोमल शय्या के सदृश उस भूमि का उपयोग होने से, सन्तुष्ट हुआ ।
|
वीक्ष्य पुष्पमधु पांसुदूषितं नन्दनं ध्रुवममुच्यतालिभिः। |
|
अन्वयः |
पांसुदूषितं पुष्पमधु वीक्ष्य अलिभिः नन्दनं ध्रुवम् अमुच्यत । यत् नभः अन्धकारपटलच्छलेन भृङ्गपूरितम् इव अभवत् ।
|
व्याख्या |
पांसुभिः क्षोणीसमुत्थितरजोभिः ‘रेणुर्द्वयोः स्त्रियां धूलिः पांसुर्ना न द्वयो रजः' इत्यमरः । दूषितं कलुषीकृतं पुष्पाणां कुसुमानां मधु रसं मकरन्दं वीक्ष्य दृष्ट्वाऽलिभिर्भ्रमरैः ‘षट्पदभ्रमरालयः' इत्यमरः । नन्दनं सुरेन्द्रोद्यानं ध्रुवं