पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अन्वयः

  प्रभातेषु इव संयुगेषु यस्य प्रतापभानौ प्रतिष्ठां भजति (सति) सूर्योपलानाम् इव केषां पार्थिवानां तापः न प्रकटीबभूव ।
                            व्याख्या
  प्रभातेषु प्रत्यूषेषु प्रत्यूषोऽहर्मुखं कल्यमुषः प्रत्युषसी अपि प्रभातं' चेत्यमरः ।

इव संयुगेषु युद्धेषु यस्य राज्ञो जयसिंहदेवस्य प्रताप एव भानुस्सूर्यस्तस्मिन् प्रतिष्ठां भजति विद्योतमाने सति सूर्योपलानामिव सूर्यकान्तमणीनामिव केषां पार्थिवानां विपक्षिनृपाणां तापस्सन्तापः संज्वलनं न प्रकटीबभूव किन्तु समेषां विपक्षिणां सन्तापो जात एव । अत्र प्रतापे भानुत्वारोपादूपकम् । प्रभात संयुगयोः सूर्योपलपार्थिवयोश्चोपमा । केषां न प्रकटीबभूवेत्यर्थापत्तिश्चेति परस्परसापेक्षत्वादेतेषां सङ्करः ।

                        भाषा

प्रातः काल के सदृश युद्ध में, सूर्य के सदृश उस राजा जयसिंहदेव के प्रताप के विद्यमान होने पर सूर्य मणियों के समान किन राजाओं में सन्ताप प्रकट न हुवा । अर्थात् सव राजा इसके प्रताप से सन्तप्त हो गये । यात्रासु यस्य ध्वजिनीभरेण दोलायमाना सकला धरित्री । श्राद्रव्रणाधिष्ठितपृष्ठपीठ-मकर्मठं कूर्मपतिं चकार ।॥८२॥

                       अन्वयः

यस्य यात्रासु ध्वजिनीभरेण दोलायमाना सकला धरित्री श्राद्रेत्रणाधिष्ठितपृष्ठपीठं कूर्मपतिं प्रकर्मठं चकार ।