पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाषा जिस राजा तैलप के कज्जल के समान काली तलवार रूपी पट्टी से समुत्पन्न यश, शत्रुओं की स्त्रियों के सरहरी के डण्डे के समान सफेद पड़े हुबे कपोलस्थलों के सम्पर्क से श्वेतवर्ण हो गये थे–ऐसा में समझता हूँ । अर्थात् काले रङ्ग के खङ्ग से शुभ्रवर्ण यश की उत्पत्ति असम्भव है । इसलिये यह यश का श्वेतवर्ण शत्रुओं की स्त्रियों के सफेद पड़ गए हुए गण्डस्थलों की सफेदी के सम्बन्ध से प्राप्त हुआ होगा ऐसा मैं समझता हूँ ।

स्फूर्जद्यशोहंसविलासपात्रं नित्रिंशनीलोत्पलमुत्प्रभं यः । उत्सहेतोरिव वीरलक्ष्म्याः संग्रामलीलासरसश्चकर्ष ॥७२॥

             अन्वयः

यः संग्रामलीलासरसः स्फूर्जद्यशोहंसविलासपात्रम् उत्प्रभं निखिंश नीलोत्पलं वीरलक्ष्म्याः उत्तंसहेतोः इव चकर्ष ।

             व्याख्य

यः श्रीतैलपः संग्रामो युद्धमेव लीलासरः क्रीडातडागस्तस्मात्स्फूर्जत् प्रवर्धमानं यश् एव हंसस्तस्य विलासपात्रं क्रीडास्थानमुत्कृष्टा प्रभा कान्तिर्यस्य तदुत्प्रभं निर्गतस्त्रिशङ्कयोऽङगुलिभ्य इति निस्त्रिशः खङ्ग एव नीलोत्पलं नीलकमलं वीराणां लक्ष्मीः श्रीस्तस्या उत्तंसहेतोरिव कर्णपूररचनार्थभिव चकर्ष कृष्टवान् । उत्तंसावतंसौ द्वौ कर्णपूरे च शेखरे' इत्यमरः । संग्रामे लीलासरोभेदः । यशसि हंसाभेदः, शुक्लत्व साम्यात् । एतावुभावभेदौ निस्त्रिशाभेदापन्न-नीलोत्पले हंसविलासपात्रत्वारोपे कारणत्बेन परिगृहीताविति परम्परित-रूपकम् । खङ्ग कर्षणे लक्ष्म्या उत्तंसकरणस्य हेतुत्वेनोत्प्रेक्षणाद्धेतूत्प्रेक्षा ।