पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/३३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सन्धिबन्ध प्रेमबन्धनमवलोक्य ज्ञात्वा शान्तं समाप्तं साध्वसं भयमेव महारुक् महापीड़ा यासां ता दूरीकृतमहाव्यथाः सत्यः स्वेषु निजेषु धामसु गृहेष्वादरं प्रेम बबन्धुर्दधुः । अयं विक्रमाङ्कदेवः स्नेहसम्बन्धेन न तु दिग्विजयार्थमत्राऽऽगत इति विनिश्चित्य त्यक्तचिन्ता जना आक्रमणकालिकगृहत्यागादिकं सम्प्रत्यनावश्य कमिति सुखेन स्वगृहेषु निवासं चक्रुरिति भावः । भाषा प्रजागण अपने राजा द्रविडेश्वर का कुन्तलराज आहवमल्लदेव के पुत्र विक्रमाङ्कदेव से दृढ़ प्रेम सम्बन्ध जानकर भय रूपी महाव्यथा से शान्त होकर, अपने अपने घरों में सुख से रहने लगे । अर्थात् आक्रमण काल में जो अपना घर छोड़ सुरक्षित स्थान में रहने जाना पड़ता था उसकी आवश्यकता न समझ वे सुख से अपने अपने घर में ही रहे । दिग्गजश्रवणभङ्गकारििभर्तुन्दुभिध्वनिभिरस्य भैरवैः । अभ्रमभ्रमुभुजङ्गडिण्डिम-ध्वाननिर्भरमिव व्यराजत ॥६३॥ अन्वयः अस्य दिग्गजश्रवणभङ्गकारिभिः भैरवैः दुन्दुभिध्वनिभिः अभ्रम् अभ्रमुभुजङ्गडिण्डिमध्वाननिर्भरम् इव व्यराजत । अस्य चोलदेशाधिपस्य दिशां ककुभां ‘दिशास्तु ककुभः काष्ठा आशाश्च हरितश्च ताः' इत्यमरः । गजा हस्तिनो दिग्गजास्तेषां श्रवणानि कर्णास्तेषां भङ्गो बधिरीकरणं तत्कुर्वन्तीति तैर्दिङनागकर्णबधिरीकरणसम्पादकैभैरवैर्भयान