पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/३३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अन्वयः अद्य यावत् जनैः तस्य वचसाम् असत्यता क्व अपि न अवलोकिता। यदि माशां शुभविपर्ययात् सा भवाट्शेषु व्यक्तिम् एष्यति । व्याख्या अद्य यावदाधनिककालपर्यन्तं जनैलॉकैस्तस्य वचसां वाणीनामसत्यता ि मिथ्यात्व क्वाऽपि कस्मिन्नपि विषये नाऽवलोकिता न दृष्टा नानुभूतेत्यर्थः । यदि परं मादृशां मत्सदृशानां शुभस्य पुण्यस्य विपर्ययो वैपरीत्यं तस्मात्पापात् दुर्भाग्याद्वा साऽसत्यता भवादृशेषु त्वादृशेषु महानुभावेषु व्यक्ति प्रकाशमेष्यति प्राप्स्यति । अयमस्माकं दौर्भाग्यस्यैव प्रभावः स्याद्यदि तस्य वचसामसत्यता भवत्सु प्रकटीभ वेदिति भावः । भाषा आज तक लोगों को किसी भी विषय में द्राविडेश्बर की वाणी की असत्यता का अनुभव नहीं हुआ है । यदि आपके अनुभव में ऐसी बात आवे तो वह मेरे ऐसों के पाप से या दुर्भाग्य से ही हो सकता है। एवमादिभिरनेन बोधितः कोविदेन वचनैः पुनः पुनः । ज्ञातचोलहृदयः स्वयं च स प्राङ्निवेदितमगान्नर्दीतटम् ॥६०॥ अन्वयः कोविदेन अनेन एवम् आदिभिः वचनैः पुनः पुनः बोधितः स्वयं च ज्ञात-वोलहृदयः सः प्राक् निवेदितं नदीतटम् अगात् । ६व्याख्या कोविदेन पण्डितेन लौकिकव्यवहाराभिज्ञेनेत्यर्थः । अनेन दूतेनैवमादिभि