दुःश्रवा इति भावः । पक्षिणामाधिक्यात्तत्रस्थफलसम्पत्तिर्ध्वनिता । अतिश - योक्त्यलङ्कारः ।
भाषा
बागों के पक्षियों के कूजित से दबे हुए गलों के शब्द वाली मृगनयनी उत्कर्ष को प्रकट करने में समर्थ न हो सकीं । अर्थात् पक्षियों के जोर से होने वाले कलरव से उनकी कोमल व मधुर ध्वनि सुनाई नहीं पड़ सकती थी ।
यत्र तिष्ठति विरोधमुन् दाहतः प्रभृति तेजसा सह ।
मेचकक्रमुककाननावली -मीलितोष्ण किरणार्चिषि स्मरः॥ २० ॥
अन्वयः
मेचकक्रमुककाननावली मीलितोष्ण किरणार्चिषि यत्र स्मरः दाहतः प्रभृति तेजसा सह विरोधम् उद्वहन् तिष्ठति ।
व्याख्या
मेचकानां कृष्णवर्णानां क्रमुकाणां पूगवृक्षाणां काननानि वनानि तेषामावली पंक्तिस्तया मीलितान्यवरुद्धान्युष्णकिरणस्य सूर्यस्याऽचषि मयूखा यस्मिन्तस्मिन् मेचकमुककाननावलीमीलितोष्णकिरणाचिषि यत्र वनवासमण्डले स्मरः कामदेवो दाहतश्शिवतृतीयनेत्राग्निभस्मीकरणात्प्रभृति तेजसा येन केनाऽपि तेजस्सा- मान्येन सह विरोधं विद्वेषमुद्वहन् धारयन् तिष्ठति निवासं करोति । शिव- त्राग्निविरोधेन तेजस्सामान्येन द्वेषात्सूर्यतेजसोऽप्यत्राऽनागमनादत्र वने स्मरः स्थितिमवलम्बते इति भावः । स्मरे तेजसा विरोधरूपस्य धर्मस्योत्प्रेक्षणादुत्प्रेक्षा- लङ्कारो गम्यते, तेन च काननानां क्रीडायोग्यत्वं ध्वन्यत इति वस्तध्वनिः ।