पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पङिक्तः श्रेणी पद्मम् कमलमेव सदा गृहं यस्य तेन ब्रह्मणा प्रहिता नृपानयनार्थं प्रेषिता शुक्लत्वात् विमानानि व्योमयनानि 'व्योमयानं विमानोऽस्त्री’ इत्यमरः । एव हंसमाला हंसश्रेणिः इवाऽदृश्यत दृष्टा । अत्र फेनपिण्डपङक्तौ विमानहंसमालायाः शुभ्रत्वादुपेक्षणाद्वस्तूत्प्रेक्षा । भाषा उस राजा ने ऊँचे ऊँचे फेन के सफेद गोलों की कतार को; मानों ब्रह्मा ने उसको स्वर्ग में बुलाने के लिये भेजे हुए विमान रूपी हंसों की कतार हैं, ऐसा देखा । अतिदूरं समुत्प्लुत्य निपतद्भिः स शीकरैः । अराजत धराचन्द्रः प्रत्युद्र्त इव ग्रहैः ॥६५॥ अन्वयः सः धराचन्द्रः अतिदूरं समुत्प्लुत्य निपतद्भिः शीकरैः ग्रहै: प्रत्युद्गत इव अराजत । व्याख्या सः प्रसिद्धः धराया भूमेश्चन्द्र इन्दुः आहवमल्लदेवोऽतिदूरम् सुदूरं समुत्प्लुत्यो ध्र्वगत्वा निपतद्भिरधस्तादापतद्भिः शीकरैरम्बुकणैः ‘शीकरोम्बकणाः स्मृताः इत्यमरः । ग्रहैब्रुधशक्रादिग्रहनक्षत्रैः प्रत्युद्गत इव सन्मानप्रदर्शनार्थं कृताभ्यु त्थान इवाऽराजत शुशुभे । शुभ्रत्वदुध्व्रुस्थानस्थितत्वाच्चऽम्बुकणेषु ग्रहत्वा भेदः । शीकराणमुत्प्लुत्य पुनः पतने ग्रहकर्तृकाभ्युत्थानक्रियाया उत्प्रेक्षणात् क्रियोत्प्रेक्षा । भष