पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

== क्षुएएस्तत्करिभिस्तोय-द्विपाङ्घ्रिनिगडोपमाः ।

                     शयानाः कुण्डलीभूय वार्धितीरे महोरगाः ॥१२॥ ==
                               अन्वयः
             वार्धितीरे तोयद्विपाङिघ्रनिगडोपमाः कुण्डलीभूय शयानाः महोरगाः
         तत्करिभिः क्षुण्णाः ।
                       
                               व्याख्या
         वार्धेः समुद्रस्य तीरे तटे समुद्रतटे तोयस्य जलस्य द्विपा गजास्तेषामङघ्रयः
        पादास्तेषां निगडानां शृङ्खलानामुपमा सादृश्यं येषां ते समुद्रगजनिगडोपमाः
       ‘अथ श्रृङ्खले । अन्दुको निगडोऽस्त्री स्यात्' इत्यमरः । कुण्डलीभूय मण्डलाकारेण
        कुण्डलनां विधाय शयानाः सुप्ता महोरगा उरसा गच्छन्तीत्युरगा महान्त उरगा
        महोरगा महासर्पास्त्स्य विक्रमाङ्कदेवस्य करिभिर्हस्तिभिः क्षुण्णा गजपादैः
        सम्मर्दिताः । समुद्रतटे सर्पणामाधिक्यं स्वाभाविकमेव । अत्रोपमालङ्कारः ।
                                  
                                  भाषा
          समुद्र तट पर जलहाथियों के पांव में बांधने के सिक्कड़ के सदृश मण्डल
      बाँध कर सोए हुए बड़े २ सांप, उस राजा के हाथियों से कुचल दिये गए ।


                  == दधिरे तद्वजाः पाद-लग्रपाथोधिमौक्तिकाः ।
                     क्षुण्णनक्षत्रपुञ्जस्य सौन्दर्य सुरदन्तिनः ॥१३॥ ==
                                  अन्वयः
              पादलमपाथोधिमौक्तिकाः तद्रजाः क्षुएएनक्षऋपुञ्चस्य सुरदन्तिनः